अश्वप्लुतं वासवगर्जितं च स्त्रीणां च चित्तं पुरुषस्य भाग्यम् ।
अवर्षणं चाप्यतिवर्षणं च देवो न जानाति कुतो मनुष्यः ॥ १४३ ॥
किन्त्वयं ब्राह्मणो दारुणापराधित्वेऽपि न हन्तव्य इति विशेषेण सरस्वत्याः पुरुषावतारः' इति विचार्य कालिदासं प्राह 'कवे, सर्वथास्मद्देशे न स्थातव्यम् । किं बहुनोक्तेन । प्रतिवाक्यं किमपि न वक्तव्यम् ।'ततः कालिदासोऽपि वेगेनोत्थाय वेश्यागृहमेत्य तां प्रत्याह-'प्रिये, अनुज्ञां देहि । मयि भोजः कुपितः स्वदेशे न स्थातव्यमित्युवाच । अहह--
अघटितघटितं घटयति सुघटितघटितानि दुर्घटीकुरुते ।
विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥ १४४ ॥
किं च किमपि विद्वद्वृन्दचेष्टितमेवेति प्रतिभाति । तथा हि-
बहूनामल्पसाराणां समवायो दुरत्ययः ।
तृणैर्विधीयते रज्जुर्बध्यन्ते तेन दन्तिनः ॥ १४५ ॥
ततो विलासवती नाम वेश्या तं प्राह-
तदेवास्य परं मित्रं यत्र सङ्क्रामति द्वयम् ।
दृष्टे सुखं च दुःखं च प्रतिच्छायेव दर्पणे ॥ १४६॥
दयित, मयि विद्यमानायां किं ते राज्ञा, किं वा राजदत्तेन वित्तेन कार्यम् । सुखेन निःशङ्क तिष्ठ मद्गृहान्तः कुहरे' इति । ततः कालिदासस्तत्रैव'वसन्कतिपयदिनानि गमयामास ।
ततः कालिदासे गृहान्निर्गते राजानं लीलादेवी प्राह–'देव, कालिदासकविना साकं नितान्तं निबिडतमा मैत्री । तदिदानीमनुचितं कस्मात्कृतं यस्य देशेऽप्यवस्थानं निषिद्धम् ।
इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
तद्वत्सज्जनमैत्री विपरीतानां च विपरीता ॥ १४७ ॥
शोकारातिपरित्राणं प्रीतिविस्रम्भभाजनम् ।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ १४८ ॥
राजाप्येतल्लीलादेवीवचनमाकर्ण्य प्राह-'देवि, केनापि ममेत्यभिधायि यत्कालिदासो दासीवेषेणान्तःपुरमासाद्य देव्या सह रमते' इति । मया चैतद्व्यापारजिज्ञासया कपटज्वरेणायं भवती च वीक्षितौ । ततः समीप-(१)अश्वधावनम् । (२) अत्येतुमशक्यः।