पृष्ठम्:भोजप्रबन्धः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 ततः कैश्चिबुद्धिमद्भिर्मन्त्रयित्वा सर्वैरपि विद्वद्भिर्भोजस्य ताम्बूलवाहिनी दासी धनकनकादिना सम्मानिता । ते च तां प्रत्युपायमूचुः- 'सुभगे, अस्मत्कीर्तिमसौ कालिदासो गलयति । अस्मासु कोऽपि नैतेन कलासाम्यं प्रवहते । वत्से, यथैनं राजा देशान्तरं निःसारयति तद्भवत्या कर्तव्यम्' इति । दासी प्राह-'भवद्भयो हारं प्राप्य मया युष्मत्कार्यं क्रियते । तन्मम प्रथमं हारो दातव्यः' इति । ततः सा ताम्बूलवाहिनी तैर्दत्तं हारमादाय व्यचिन्तयत् । तथा हि-'बुधैरसाध्यं किं वास्ति । 'ततः समतिक्रामत्सु कतिपयवासरेषु दैवादेकाकिनि प्रसुप्ते राजनि चरणसंवाहनादिसेवामस्य विधाय तत्रैव कपटेन नेत्रे निमील्य सुप्ता । ततश्चरणचलनेन राजानमीषज्जागरूकं सम्यग्ज्ञात्वा प्राह-'सखि मदनमालिनि, स दुरात्मा कालिदासो दासीवेषेणान्तः पुरं प्राप्य लीलादेव्या सह रमते । राजा तच्छ्रुत्वोत्थाय प्राह–'तरङ्गवति, किं जागर्षि' इति । सा च निद्राव्याकुलेव न शृणोति । राजा च तस्या अपध्वनिं श्रुत्वा व्यचिन्तयत्-'इयं तरङ्गवती निद्रायां स्वप्नवशंगता वासनावशाद्देव्या दुश्चरितं प्राह । स च स्त्रीवेषेणान्तःपुरमागच्छतीत्येतदपि सम्भाव्यते । को नाम स्त्रीचरितं वेद' इति । ततश्चेत्थं विचार्य राजा परेद्युः प्रातरात्मनि कृत्रिमज्वरं विधाय शयानः कालिदासं दासीमुखेनानाय्य तदागमनानन्तरं तयैव लीलादेवीं चानाय्य देवीं प्रत्यवदत्-'प्रिये, इदानीमेव मया पथ्यं भोक्तव्यम्' इति । इत्युक्ते सापि तथैव' इति पथ्यं गृहीत्वा राज्ञे रजतपात्रे दत्त्वा तत्र मुद्गदालीं प्रत्यवेषयत् । ततो राजापि तयोरभिप्रायं जिज्ञासमानः श्लोकार्धं प्राह-

  'मुद्गदाली गदव्याली कवीन्द्र वितुषा कथम् ।' इति ।

ततः कालिदासो देव्यां समीपवर्तिन्यामप्युत्तरार्धं प्राह-

  'अन्धवल्लभसंयोगे जाता विगतकञ्चुकी' ॥ १४२ ॥

 देवी तच्छ्रुत्वा परिज्ञातार्थस्वरूपा सरस्वतीव तदर्थं विदित्वा स्मेरमुखी मनागिव बभूव । राजाप्येतद् दृष्ट्वा विचारयामास-'इयं पुरा कालिदासे स्निह्यति । अनेनैतस्यां समीपवर्तिन्यामपीत्थमभ्यधायि। इयं च स्मेरमुखी बभूव । स्त्रीणां चरित्रं को वेद ।