पृष्ठम्:भोजप्रबन्धः.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 एवं पुरे परिभ्रममाणे राजनि वर्त्मनि चोरद्वयं गच्छति । तयोरेकः प्राह शकुन्तः-'सखे, स्फारान्धकारविततेऽपि जगत्यञ्जनवशात्सर्वं परमाणुप्रायमपि वसु सर्वत्र पश्यामि । परन्तु सम्भारगृहानीतकनकजातमपि न मे सुखाय' इति । द्वितीयो मरालनामा चोर आह- आहृतं सम्भारगृहात्कनकजातमपि न हितमिति कस्माद्धेतोरच्यते' इति । ततः शकुन्तः प्राह-'सर्वतो नगररक्षकाः परिभ्रमन्ति । सर्वोऽपि जागरिष्यत्येषां भेरीपटहादीनां निनादेन । तस्मादाहृतं विभज्य स्वस्वभागगतं धनमादाय शीघ्रमेव गन्तव्यम्' इति । मरालः प्राह-सखे, त्वमनेन कोटिद्वयपरिमितमणिकनकजातेन किं करिष्यसि' इति ।

 शकुन्तः 'एतद्धनं कस्मैचिद्विजन्मनेद् दास्यामि यथायं वेदवेदाङ्गपारणोऽन्यं न प्रार्थयति ।'

 मराल:-"सखे चारु।

  ददतो युध्यमानस्य पठतः पुलकोऽथ चेत् ।
  आत्मनश्च परेषां च तद्दानं पौरुषं स्मृतम् ॥ १०५॥

 अनेन दानेन तव कथं पुण्यफलं भविष्यति ।'

 शकुन्तः–'अस्माकं पितृपैतामहोऽयं धर्मः, यच्चौर्येण वित्तमानीयते'

 मराल:- 'शिरश्छेदमङ्गीकृत्यार्जितं द्रव्यं निखिलमपि कथं दीयते ।'

 शकुन्तः–'मूर्खो नहि ददात्यर्थं नरो दारिद्र्यशङ्कया ।
  प्राज्ञस्तु वितरत्यर्थं नरो दारिद्रयशङ्कया' ॥ १०६ ॥

 मरालः-'किश्चिद्वेदमयं पात्रं किञ्चित्पात्रं तपोमयम् ।
  पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ १०७ ॥

 शकुन्तः-'अनेन वित्तेन किं करिष्यति भवान् ।'

 मरालः-सखे, काशीवासी कोऽपि विप्रबटुरत्रागात् । तेनास्मत्पितुः पुरः काशीवासफलं व्यावर्णितम् । ततोऽस्मत्तातो बाल्यादारभ्य चौर्य कुर्वाणो दैववशात्स्वपापानिवृत्तो वैराग्यात्सकुटुम्बः काशीमेष्यति । तदर्थमिदं द्रविणजातम् ।

 शकुन्तः-'महद्भाग्यं तव पितुः । तथा हि-

  वाराणसीपुरीवासवासनावासितात्मना।
  किं शुना समतां याति वराकः पाकशासनः ॥ १०८।।