पृष्ठम्:भोजप्रबन्धः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 राजा लक्षं ददौ । ततस्तस्मिन्मृगयारसिके राजनि कश्चन पुलिन्दपुत्रो गायति । तद्गीतमाधुर्येण तुष्टो राजा तस्मै पुलिन्दपुत्राय पञ्चलक्षं ददौ । तदा कविस्तद्दानमत्युन्नतं किरातपोतं च दृष्ट्वा नरेन्द्रपाणिकमलस्थपङ्कजमिषेण राजानं वदति-

  एते हि गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
  यल्लक्ष्मीवसतेस्तव मधुपैरुपभुज्यते कोशः' ६७ ॥

भोजस्तमभिप्रायं ज्ञात्वा पुनर्लक्षमेकं ददौ । ततो राजा ब्राह्मणमाह-

  'प्रभुभिः पूज्यते विप्र कलैव न कुलीनता ।
  कलावान्मान्यते मूर्ध्नि सत्सुादेवेषु शम्भुना' ।। ६८ ।।

 एवं वदति भोजे कुतोऽपि पञ्चषाः कवयः समागताः । तान्दृष्ट्वा राजा विलक्षण इवासीत्-'अद्यैव मयैतावद्वित्तं दत्तम्' इति । ततः कविस्तमभिप्रायं ज्ञात्वा नृपं पद्ममिषेण पुनः प्राह-

  'किं कुप्यसि कस्मैचन सौरभसाराय कुप्य निजमधुने ।
  यस्य कृते शतपत्र प्रतिपत्रं तेऽद्य मृग्यते भ्रमरैः' ॥ ६९ ॥

ततः प्रभु प्रसन्नवदनमवलोक्य प्रकाशेन प्राह-

  'न दातुं नोपभोक्तुं च शक्नोति कृपणः श्रियम् ।
  किन्तु स्पृशति हस्तेन नपुंसक इव स्त्रियम् ॥ ७० ॥
  याचितो यः प्रहृष्येत दत्त्वा यः प्रीतिमान्भवेत् ।
  तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात्' ॥ ७१ ॥

 ततस्तुष्टो राजा पुनरपि कलिङ्गदेशवासिकवये लक्षं ददौ । ततः पूर्वकविः पुरःस्थितान्षट्कवीन्द्रान्दृष्ट्वाह–'हे कवयः, अत्र महासरः सेतुभूमौवासी राजा यदा भवनं गमिष्यति तदा किमपि ब्रूत' इति । ते च सर्वे महाकवयोऽपि सर्वे राज्ञः प्रथमचेष्टितं ज्ञात्वावर्तन्त । तेष्वेकः सरोमिषेण नृपं प्राह--

  'आगतानामपूर्णानां पूर्णानामपि गच्छताम् ।
  यदध्वनि न सङ्घट्टो घटानां तत्सरो वरम्' ॥ ७२ ॥

 इति । तस्य राजा लक्षं ददौ । ततो गोविन्दपण्डितस्तान्कवीन्द्रान्दृष्ट्वा चुकोप । तस्य कोपाभिप्रायं ज्ञात्वा द्वितीयः कविराह-(१) पञ्च वा षड् वा पञ्चषाः । “संख्ययाव्ययासन्ना०" इत्यनेन बहुव्रीहिः ।