पृष्ठम्:भोजप्रबन्धः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

  'कस्य तृषं न क्षपयसि पिबति न कस्तव पयः प्रविश्यान्तः ।
  यदि सन्मार्गसरोवरनक्रो न क्रोडमधिवसति' ॥ ७३ ॥

राजा तस्मै लक्षद्वयं ददौ । तं च गोविन्दपण्डितं व्यापारपदादूरीकृत्य त्वयापि सभायामागन्तव्यम् , परंतु केनापि दौष्ट्यं न कर्तव्यम्' इत्युक्त्वा ततस्तेभ्यः प्रत्येकं लक्षं दत्त्वा स्वनगरमागतः। ते च यथायथं गताः।

 ततः कदाचिद्राजा मुख्यामात्यं प्राह--

  'विप्रोऽपि यो भवेन्मूर्खः स पुराद्बहिरस्तु मे ।
  कुम्भकारोऽपि यो विद्वान्स तिष्ठतु पुरे मम' ॥ ७४ ॥

इति । अतः कोऽपि न मूर्योऽभूद्धारानगरे

 ततः क्रमेण पञ्चशतानि विदुषां वररुचि-बाण-मयूर-रेफण-हरि-शंकर-कलिङ्ग-कर्पूर-विनायक-मदन-विद्या-विनोद-कोकिल-तारेन्द्रमुखाः सर्वशास्त्रविचक्षणाः सर्वे सर्वज्ञाः श्रीभोजराजसभामलंचक्रुः । एवं स्थिते कदाचिद्विद्वद्वृन्दवन्दिसिंहासनासीने कविशिरोमणौ कवित्वप्रिये विप्रप्रियबान्धवे भोजेश्वरे द्वारपाल एत्य प्रणम्य व्यजिज्ञपत्–'देव, कोऽपि विद्वान्द्वारि तिष्ठति' इति । अथ राज्ञा 'प्रवेशय तम्' इत्याज्ञप्ते सोऽपि दक्षिणेन पाणिना समुन्नतेन विराजमानो विप्रः प्राह-'राजन्नभ्युदयोऽस्तु'
राजा-'शंकरकवे किं पत्रिकायामिदम्'
कविः-'पद्यम्'
राजा-कस्य'
कविः-'तवैव भोजनृपते'
राजा-'तत्पठ्यताम्'
कविः-'पठ्यते'

  एतासामरविन्दसुन्दरदृशां द्राक्चामरान्दोलना-
  दुद्वेल्लभुजवल्लिकङ्कणझणत्कारः क्षणं वार्यताम् ॥ ७५ ॥

यथा यथा भोजयशो विवर्धते सितां त्रिलोकीमिव कर्तुमुद्यतम् ।
तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया' ॥ ७६ ॥

 ततो राजा शंकरकवये द्वादशलक्षं ददौ । सर्वे विद्वांसश्च विच्छायवदना बभूवुः । परं कोऽपि राजभयान्नावदत् । राजा च कार्यवशाद्गृहं गतः ।