पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

? २४५ स्त्स्याः त्रिवृतमेकैकम्करोत् " इति पटकमेणेत्यर्थः । संकल्पे तु (फलं) पूर्वभावति । कलेच्छा पूर्वे भवति ; पश्चात् तत्साधनेच्छा भवति : उपायेच्छाया इष्टसाधनताज्ञान जन्यत्वादिति भः । किं केन कथमित्यादाविति । यद्यपीय जिज्ञासान्पः शाब्द्याकाङ्का, न तु फलोपयेच्छारुप । अत एव हि *करोति । इत्युक्ते 'किं करोतेि, सर्वस्वापहारं करोति, शिरश्छेदं करोति । इति भाव्ये जिज्ञासा जायते । अथापि फलोपायविषयकेच्छापि फलोपायजिज्ञासातुल्यशीलेति भावः । न च व्याकाङ्काय: पूर्वभावित्वे समानपदोषात्तधात्वर्थस्यैव भूच्यत्वेनान्वयः स्यादिति वाच्यम्, समानप्रत्ययोपात्तविषयक्रुद्राय! भावनायाः समीहितभाव्यापेक्षितया यागस्य भाव्यतया नवयः, अपितु करणत्वेनेति स्वर्गकामधिकरणे स्थितत्वादितेि द्रष्टव्यम् । अस्मिन्नर्थे निदर्शननेितिं । “कहु स्य प्रजायेथ !’ इत्यत्र “प्रजायेय ' इति निर्दिष्टप्रजननापेक्षया “बहु स्याम्' इति पूर्वनिर्दिष्टस्य बहुभवनस्य कार्यत्वदर्शनात् तद्वदेव * नामरूपे व्याकरवाणि । लासां वृितं त्रिवृतमेकैकां करवाणि ) इत्यत्र संकल्पवाक्ये पूर्वनिर्दिष्टस्य नामरूपव्याकाणस्य कार्यत्वं निश्चीयते । ततश्च * नाम रूपे व्याकरोत् । तासां त्रिवृतं त्रिवृमेकैकामकरोत् ’ इति वाक्ये पाठक्रमेो बाध्य इति भावः । ननु त्रिवृत्करणनामरूपन्याकरणयोः कार्यकारणभावे थस्य विप्रतिपत्तिः, तस्य बहभवनप्रजननयोः कार्यकारणभावः कथं संग्रतिपन्न स्यान् ? सुप्रसिद्धः । किंच कथमस्य क्षेोकार्धस्येदृशार्थसूचकत्वमिति चेत--न ! बहुभवन प्रजनयोः कार्यकारणमावस्य सुप्रसिद्धत्वात् पादानासंभवात् । न च निदर्शनतयोपादानभस्मिन् क्षेोकेऽसिद्धमिति वाच्यम् व्याख्यानतो विशेषमतिपतिसंभवात् । अस्यामुपनिषदीति । छान्दोग्ये तेज प्रभृतिस्रष्टरेवोपतित्वात् आकाशवायुट्टेरनुत् * तिस्रो देवताः । त्रिवृतं करवाणि ; इत्युक्तिः । नैतावता पञ्चीकरणं नास्तीति मन्तव्यम्, त्रिवृत्करणस्य पञ्चीकरणोप लक्षणार्थत्वादिति भावः । अवस्थाद्वयमस्तीति । ततश्च * संहति विना, असमा गम्य ) इति पदद्वयस्य न पैौनरुक्तयमिति भावः । “ समेयान्योन्यसंयोगम्' इति