पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ श्रीरङ्गरामानुजमुनिविरचिता संहृतत्वावस्थाकथनेऽपि कृत्स्नश:समागतत्वरूपावस्थान्तरं नोक्तमिति शङ्कां व्युदस्यति उपात्तवचनानन्तरमिति । पुराणे समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । एकसंघातलक्ष्याश्च संप्राप्चैक्यमशेषतः ।। इति पाठक्रमादिति भावः । सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावात् इति भाष्यस्यायमर्थः-' यदि सोमं न विन्देत् पूतीकानभिषुणुयात् ' इत्यनेन सोमाभावे निमित्ते नैमितिकतया फलचमसवत् पूती न विधीयन्ते, अपितु सोमावयवस्य सोमस दृशद्रव्येषु सत्वात् प्रतिनिधित्वेन पूतीकानां तदतिरिक्तद्रव्याणां च प्राप्तौ पूतीकानेव गृह्णीयादिति नियमार्थ पूतीकग्रहणे श्रुतिचोदितमिति । ततश्च, “सोमावयवसद्भावात् पूतीकग्रहणं श्रुतिचोदितम्' इत्यस्य, चोदनायां सोमावयवसद्भावो हेतुः, अतश्चोदना नुपपत्त्या समावयवसिद्धिरित्यर्थ इति न भ्रमितव्यम्, सोमावयवसद्भावे न्यायस्यैव ज्ञापक तया चोदनाया अज्ञापक्रत्वात् । भाष्ये-व्रीह्यभावे व नीरग्रहणं त्रीभिावत इति नीवारग्रहणे न्याय्यमिति न्यायविदो विदुरिति योजना । षष्ठ प्रतिनिधिपेटिकायामस्य न्यायस्य व्युत्पदितत्वादिति भावः । एतत् सवमभिप्रेयाह-अयं विधिर्नियमार्थ इति । प्रतिनिधिश्रुत्यैवेति। प्रतिनिधिश्रुतेर्नियमविधित्वसंपादकन्यायेनेत्यर्थः। एवं हि स्थितिः षष्ठ-- *ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगान् 1 (६-२-३१) इत्यत्र सोमयागस्य, “वसन्ते वसन्ते ज्योतिषा यजेत ? इति वीप्सया वीप्सितवसन्तस्य निमित्तत्वाबगमात् नित्यत्वं स्थापतम् । नित्ये व यथाशक्तन्वङ्गोपसंहारेणाप्यधिकारोऽ स्तीति सर्वशक्तयधिकरणे स्थितम् । ततश्च सोमद्रव्यरूपाङ्गभावेऽपि द्रव्थान्तरमादाथ शक्याङ्गोपसंहारेण यागस्य कर्तव्यत्वं सिद्धम् । तत्र च सोमद्रयसदृशस्य वा तद्वि सदृशस्य वा यागनिर्वर्तकतया थागविश्याक्षेपबलदुपादानं कर्तव्यमिति, “श्रुतिप्रमाण त्वाच्छिष्टभावे नागमोऽन्यस्याशिष्टत्वात् ? (६-३-१२) इत्यत्र स्थितम् । तत्र च सदृशद्रव्योपादाने तत्र सोमावयवानामपि सत्त्वात् सोमशास्त्रस्याप्यनुग्रहाय सोमसदृश द्रव्योपादानमेव युक्तमिति, “सामान्यं तचिकीर्षा हि' (६-३-२७) इत्यत्र स्थापितम्। तन्न च बहुषु सोमसदृशद्रव्येषु सत्सु पूतीकविधिर्नियमार्थः-यः सोमलताया अभावेन [{