पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता गनमेव ; न पुरुषगतम्-अथापि सामान्यतो दूत्वमालस्य दोषत्वमि ते वदन्नं प्रती दृषणमिति द्रष्टव्यम् । उभयत्रेति । ननु विषय इव पुरुषेऽप्यविद्यावृत्तिरूपभ्रान्यु त्पादनेनोभयत्र कार्यमुत्पाद्यत इति शक्यं वक्तुमिति चेत् – न । उभयत्रैकरूप कार्योत्पत्तिप्रसङ्ग इत्यत्र तात्पर्यात् । तल कार्यकरत्वं दृष्टमिति । विषयविषयक ज्ञानोत्पतेरिति भावः । दोषांशस्याकार्यकरत्वादिति । वक्ष्रश्यादेर्यथा तथ। वास्तु । दोषांशस्य तु न कपि भिन्नाधिकरणे कार्यजनकत्वं दृष्टम् । अतो न प्रमात्राश्रितदोषस्थ विषयनिष्ठानिर्वचनीयरजोत्पादकत्वमिति भावः । ननु दुष्टन्द्रिय संप्रयोगस्यागन्तुकदोषस्य संभव इत्याशङ्कयाह-इन्द्रिथसंयोगस्येति । दृष्टिविषादि न्यायस्येति । दृष्टौ विषं येषां ते दृष्टिविधाः केचन सपेविशेषा: । ते हि चक्षुरिन्द्रियसंप्रयोगेण विषमुत्पाद्य पुरुषान् झन्तीति प्रसिद्धिः । तद्वत् दुष्टन्द्रिय संप्रयोगमात्रेण रजतमुत्पाद्यतामित्याक्षेपाभिप्रायः । तत्रैव कार्यविशेषमिति । पुरुष विशेष एव ज्ञानादिकमुत्पादयति, न तु पुरुषन्तर इत्यर्थः । यथा देशादिषु दोषः प्रादुःष्युरिति संभावनायां लिङ्क । प्रादुर्भावसंभवः इत्यर्थ । भाष्ये-सा कि परमार्थभूता, अषरमार्थभूता वेति । सत्यरजते शुक्तिरुप्यादौ व प्रतीयमानेत्यर्थः । न च सत्थरजते सत्या, मिथ्याजते मिथ्येति किं न स्यादिनि चाध्यम्, तदा रजतत्वजातेः साधारणत्वाभावेनोभयत्राप्यैकरूप्यस्य वक्तव्यत्वादिति भाव । व्यक्तिवाघेऽपि जानेरमाधितत्वप्रसङ्ग इति । न हि इदं रजतम् । इति प्रतीयमानयोर्जातिव्यक्तयाकारयोरेकस्य बाध्यत्वमपरस्य नेति दृष्टम् । आपणस्वरजतव्यक्तीति । रजतत्वजातिमात्रस्यापारमाथ्यभ्युपगमेनापणस्थ रजतनिष्ठरजतत्वजतेरपि तथात्वावश्यंभावादिति भाव । कदाचित् बाधितत्वप्रसङ्गः इति । व्यक्तिः सती, जातिर्नास्तीति कदाचित् बुद्धिः स्यादित्यर्थः । कचिदपि परमार्थबुद्धिशब्दहेतुत्वादर्शनादिति । यद्यपरमार्थभूतापि जातिः परमार्थव्यौ कचिद्वत, तदा व्यक्तिगतपरमार्थवैकार्थसमवायात् जतिः परमार्थभूतेत्येवं परमार्थ बुद्धिशब्दयोः कथंचिन्निर्वाहकत्वदर्शनात् अपरमार्थव्यक्तिस्थलेऽप्यपरमार्थजातौ परमार्थ बुद्धिशब्दयोनिर्वाहः संभवेत् । यदि च कापि परमार्थव्यक्तिसंबन्धो न स्यात्, तर्हि कापि परमार्थवुद्धिशब्दनिर्वाहकत्वादर्शनात् भ्रान्तिस्थलेऽपि तन्निर्वाहो न स्यादित्यर्थः ।