पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४३ नितररूपत्वे नानुपपत्तिरिति द्रष्टव्यम् ! अस्ति यथार्थेव प्रतीतिरिति दूषणं धर्मभर्मिणोर्मिथस्तादाम्यपक्षेऽपि मानम् ! ज्ञानपतमन्यथात्वमित्यत्र किं शुक्तिज्ञानस्य रजतज्ञानत्नमन्यथात्वमित्यर्थः, उत शुक्तिज्ञानस्य रज्ञतत्त्व मन्यथात्व मिति विकल्प्याद्य दूषयति--वेिषोऽन्यो ज्ञानमन्यदेवेतेि नोपपद्यत इति । अन्यविषयकज्ञानेऽन्यविषयकज्ञानल्बै भन्तीत्यर्थः । ततश्चासनो ज्ञानान्तरतादात्म्यस्य स्याने असत्स्यातिप्रसङ्ग इति भावः । द्वितीयं दूषयति-आत्मख्यातिप्रसङ्गश्रेति । न हि पुरोवर्तिनि रजतधर्मिसंबन्ध इति । न िह पुरोवर्तिनेि रजताभेद इत्यर्थः । अन्यत्र संबन्धमानगिति ! शुक्तिरजतादात्म्थस्य वा शुक्तिरजतवैशिष्टयस्य व। असत्वेऽपि रजतत्ववैशिष्टयस्य वा रजतादात्म्यस्य वः सत्यरजते प्रसिद्धत्वादिति भावः । संनन्धद्धयानवभासादिति । अन्यत्र सतः संबन्धस्यान्यत्र भाने संबन्ध संबन्धो भासत इत्यर्थः स्यात् । ततश्च संबन्धद्वयभान्प्रसङ्ग इत्यर्थः । शङ्कते संवन्धस्य संबन्धान्तरानपेक्षत्वादिति ! निरन्तरं मातमिति । अगृहीतो संसर्गतयैकप्रतीत्युपारूढमित्यर्थः । न हि प्रतिबन्छेति । ततश्च प्रवृतिबाधमात्रस्य न प्रयोजकत्वम् । अपितु प्रवृतिबाधसचिवस्य 'नाति ? इति प्रत्ययस्यापति भावः । आरोप्यलिङ्गानुविधाधीति । ग्रहणस्मरणात्मकत्वे 'इये रजतम् ' इत्यपि स्यादिति भावः । न तु तत्पक्ष उपन्यस्त इति । तन्मते ज्ञानैक्यानभ्युपगमादिति भावः । भाष्ये--विषयासद्भावपक्ष इति । माध्यमिकमते ज्ञानमपि नास्ति । योगाचारमते ज्ञानभिन्नतया विषयोऽप्यस्ति । एतन्मते तु ज्ञानमस्ति, विषये नास्तीति विशेषः । विद्यमानविषयकारकत्वेनेति । विषयजन्यत्वेनेत्यर्थ । कारणत्वे विद्यमानत्वमपि सिध्यतीत्यभिजेत्य विद्यमानेत्युक्तम् । तस्या वृत्तिज्ञानत्वेनेति । अपरोक्षवृत्तिज्ञानत्वेनेत्यर्थः । ततश्च परोक्षवृत्तिज्ञाने विषयरहितावस्थासंभवेन न दोष इति ध्येयम् । विरम्य व्यापारवचनाचेति । नेिर्विषयमुत्पन्ने सत् विषयमुत्पाद्य पश्चाद्विषयीकरोतीति क्रमिकव्यापारद्वयाश्रयणात् विरम्य व्यापार इति द्रष्टव्यम् । पुरुषगतत्वस्यापि संभवादिति । यद्यपीन्द्रिथपेक्षया ममात्रपेक्षया दूत्वं विषय