पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५ भावत्वपक्षे अभावस्य प्रतियोग्यवच्छिन्नत्वेन भाननियमन् भावत्वप ज्ञनविरोधित्वे रूपाज्ञानवादिना ज्ञानाभान्त्वन्य सीत्मनाऽनभ्युपगमेऽपि । इति शेषः । स्वरूप वच्छिन्नाज्ञानप्रतीताविति । प्रत्यगर्थाज्ञाम्प्रतीताबित्यर्थः । स्वरूपभृतज्ञाना दन्यतया तत्सिद्धेरिति । यद्यपि प्रमज्ञानादन्यतया तत्सिद्वावपि न निवत्यै निवर्तकविरोधः, अन्ततो गत्वा प्रभणज्ञानविरुद्धता तसिद्धावपि न निवत्यैनिवर्तक विरोधः । न हेि प्रमाणज्ञानविरुद्धमित्युलेिल्यमानत्वमात्रेण विरोधिप्रमाणज्ञानम बिर्भूतमुपस्थितं स्यात्, येन विरोधेो भवेत् । न हि * तेजोविरुद्धोऽन्धकारः । इत्युलेखमात्रेणान्वकारस्य तेजसा निवृतिर्भवति । इयं च शङ्कपिशाची * स्मृतेः स्मर्यमाणसमकालवर्तिवनियमाभावात् " इति पूर्वमेव प्रतिक्षिप्ता च । ततश्च किं वैधग्यमभिप्रेत्य 'स्वरूपज्ञानादन्यतया प्रतीतिरस्तु, न तु प्रमाणज्ञानविरोधितयां इत्युपन्यस्यते इति चेत् । अत्र ब्रम –प्रमाणज्ञानस्य तदानीमसत्वे प्रमाणज्ञान विरुद्धतयाऽज्ञानस्योछेखः साक्षिणा न युक्त , ज्ञात्वाज्ञातत्त्रोपरगाभावे साक्षिणः स्वाध्यस्तविद्यमानमालात्विान् । तथाच प्रमाणज्ञास्य साक्षिणोलेखमभ्युपगच्छता प्रमाणज्ञानस्य सत्वमभ्युपगन्तव्यमिति । न हि स्वरूपभूतं ज्ञानं साश्रयं सविषयं चेति । यद्यपि स्त्ररुपज्ञानस्यज्ञानादिभासकस्य सविषयत्वमस्ति, तथापि साश्रयत्वा भावेन द्वित्वावच्छिन्नाभावमभ्युपेत्यं तथोक्तमिति द्रष्टव्यम् । यद्वा * भामहं न जानामि ' इति प्रत्यार्थकर्मकत्वस्य ज्ञाने प्रतीते स्वरूपज्ञानस्य स्ववृतिवविरोधेन प्रत्यगर्थविषयत्वाभावभभिप्रेत्य स्वरूपज्ञानस्य सविषयत्वाभावकथनमिति. द्रष्टव्यम् । ननु 'मामहं न जानामि ? इत्यत्र न अर्थप्रतियोगिनि ज्ञाने साश्रयत्वसविषयत्व प्रतीतिः, येनायं दोषः स्यात् । अपितु नन्नर्थ एवज्ञान इत्याशङ्कय तत्रापि प्रत्यगर्थ विषयत्वं तदावरणत्वम्; तच तद्विषयकज्ञानप्रतिबन्धकत्वमिति घट्टकुटीप्रभातवृत्तान्त इत्याह - खरूपै किमाश्रयतयेत्यादिना । स्खसादन्येन केनापीति । स्वरूप भूतज्ञानान्यमात्रार्थकत्वस्य परणेोक्ततया तदन्येन येन केनाप्याश्रितवमान सिध्येदिति भावः । प्रमाणज्ञानप्रतीत्यवश्यंभावादिति । तत्प्रतीतै प्रत्येतव्यस्य प्रमाणज्ञानस्य सत्वमावश्यकमिति भावः पूर्वोक्तो द्रष्टव्यः । प्रतीयते चेति व्याख्येयं पदम् । ।