पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ न" तूभयाभ्युपगत इत्युक्तमिति । न तूभयभ्युपेत एक इत्युक्तमित्यर्थः । “उभयाभ्युपेतो ज्ञानप्राग्भाव एव ' अमशेो मामन्यं च न जानामि ' इत्यनुभूयत त्यभ्युपगन्तव्यम् ? इतेि भाष्य उक्ततया न तदपलापश्चोदनीयः । न तु जमवेलायामपि विबानमिति । यद्यपि स्वानुभवैकस्वभावत्वस्यापि श्रमवेलायां विद्यमानत्वमस्येव, अन्यथा तेन हेतुना अज्ञानानुभवप्रतिक्षेपायोगात् तथापि तादृशस्य स्वानुभवैकस्वभावस्वस्य भ्रमवेलायां विद्यमानत्वं न पराभ्युपगतम् अज्ञानानुभवस्वभावत्वस्याध्यभ्युपेतत्वादिति विशेषः । नैतदित्यादिना दूषयतीति । ननु-सिद्धान्तेऽपि “पराभिध्यानातु तिरोहितम्' इत्यादि कथमुपादनीयम् ? अतिरोहितापहतपाप्मत्वाद्यवस्थस्य पुण्या पुण्यरूपपरमात्मसंकल्पेन तिरोधानं न संभवत्येव, प्रकृत्यात्मत्स्वतन्त्रात्मत्वभ्रमशशून्या वस्थायां कर्मणोऽप्रसत्तेः । अततिरोधानानन्तरं पराभिध्यानस्य लब्धसत्ताकत्वम् तसिश्च सति तिरोधानमित्यन्योन्याश्रय इति चेत्-न । कर्मतिरोधानयोबीजाकुर न्यायेन प्रवाहनादिताऽदोषात् । तन्मते अविद्याया एकत्वाभ्युपगमेन प्रवाहा नादित्वानभ्युपगमदिति भावः । यौगपद्दछपक्ष इति । यद्यपि हेत्वन्तरेण तिरस्कृत मिति पक्षो न यौगपद्यपक्षः, तस्य दूषितत्वात्-तथापि अनवस्था चेत्यत्र चशब्द पूर्वोक्तयौगपद्यपक्षेऽनुमवपूर्वकतिरस्कार, तिरस्कारपूर्वकोऽनुभव इति पक्षद्वयोक्त दूषणद्वयमपि सूचयतीति भावः । ज्ञानानिवत्र्यटूषणद्वयस्यापीति । इदं च तिरस्कारकहेत्वन्तरस्यान्नुभूयमानस्यैव काचाद्वितिरस्कारकत्वमित्यभिप्रेत्योक्तम् । यदः तु तदपि हेत्वन्तरं हेत्वन्तरतिरस्कृतेनानुभूतमेव तिरस्करोतीत्यभ्युपगम्यते तदानव सैवेति द्रष्टव्यम् । अनुमतिप्रदाने (मतप्रद्र्शने) वर्तत इति। पक्षान्तरपरिग्रहृ इत्यर्थः । यः सांशः सविशेषः इत्यादेः अज्ञानकार्ये न संभवतीत्यन्तस्य भाष्यस्यायमर्थः अविशदप्रकाशत्वं हि अविशदत्वविशिष्ट प्रकाशत्वम् । अविशदत्वं चाप्रकाशमानत्वम् । अप्रकाशमानत्वं च धर्मद्वारा धर्मिगतम् । प्रकाशमानत्वं च साक्षाद्धर्मिगतम् । ततश्चा: प्रकाशमानश्चर्मकत्वे सति प्रकाशमानत्वमविशदकाशत्वमित्येवावगन्तव्यम् । न