पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ श्रीरङ्गरामानुजमुनिविरचितः जानामि = यथा विशदं भवति तथा न जानामि इत्यर्थः ! मदर्थविषयकावधारण त्मकसाक्षात्काररूपज्ञानं नास्तीति पथैवसितोऽर्थः । ततश्चाभावप्रतियोगिभूतज्ञानस्य वैशद्ये विद्यमानस्य प्रतियोगिविषयकज्ञानस्यावैश्वं चाविरोधसिद्धये समर्थनीयम् । तद्विहाय तुरगारूढस्य तुरगविस्मरणन्यायेन प्रतियोगिभूतज्ञानस्यावैशवं कथे समथ्र्यंत इति । अत्र ब्रमः-सत्यं प्रतियोगिभूतज्ञानस्य वैशद्यमेव समर्थनीयम् । तथापि भाष्ये आश्रयप्रतियोगिज्ञानं त्वविशदस्वरूपविष्यम्' इत्युक्तः साक्षाद्विषथप्रतियोगिभूतज्ञान एवाविशदत्वं समर्थनीयमित्यभिप्रेत्य तदुपपादनायायं संरम्भः कृतः । स्खविषयं निवर्तकज्ञानमिति । खविषयं नियर्तकज्ञानं कर्म । इदानीं ज्ञानं कर्तृ । खशब्देन प्रतियोगिविषयकं ज्ञानमुच्यते । निवर्तकज्ञानं प्रतियोगिभूतज्ञानमित्यर्थः । विद्यमानं हि स्वाश्रयमिति । स्ववृतिवर्तमानस्यापरोक्षत्वादित्यर्थ । घर्तमानमा परकीयं न प्रत्यक्षम् । स्वीयमप्यतीतादिकं न प्रत्यक्षम् । स्ववृतिवर्तमानं च यज्ज्ञानं तदेव वेिशदमित्यर्थ । ततश्च स्वरूपतो विषयतश्चेदानीगभावप्रतियोगिभूतं ज्ञान भवेिशदमितेि पर्यवसितोऽर्थः । अन्यथा प्रमाणाज्ञाननेिवत्यज्ञानेति । प्रमाण ज्ञानाभावानभ्युपगमे प्रमाणज्ञानस्य सत्वप्रसङ्गेन तन्निवत्मज्ञानं कथमनुभूयेत : प्रमाणज्ञानस्य विरोधिनः सत्वादित्यर्थः । तत्रायै परिहार इति । ननु “वेिशदः तदर्थप्रतीतिर्नास्ति ? इति भाष्य एवास्याः शङ्कायाः परिहृतत्वात् किमिति टीकायां परिहारान्तरमुपन्थस्यत इति चेत् – न; विशदतदर्थप्रतिपत्तिनिषेधे वेिशद्प्रतिपते सरणावश्यंभावेन स्मृत्यारूढाया अपि विशदप्रतिपतेः सत्वमपेक्षितमिति हि शङ्काभि प्रायः; तन्न च यथाश्रुतभाष्येण परिहारासंभवत् परिहारान्तरं टीकायामारब्धमित्य दोषः । यद्यपि भानसत्वे भासमानसत्वमपेक्षितमिति शङ्का मन्दा, अथापि सा मन्दविषन्थयेन परिहर्तव्येतिं परिहार उपन्यस्त इति द्रष्टव्यम् । मेरुसाक्षात्कारः कथं निषिध्यत इति । यद्यपि स्वस्य मेरुसाक्षात्काराभावेऽपि परकीयमेरुसाक्षा त्कारस्य पुराणादिनावगतस्य स्वात्मनि निषेधे नानुपपत्तिः, तथापि स्वीयमेरुसाक्षा त्करनिषेधस्थले स्वीयमेरुसाक्षात्कारस्याप्रसिद्धत्वादिति शङ्कभिप्रायात् । इहादृष्ट चत्वरद्विरदेनेति । चत्वरीयो द्विरदश्चत्वरद्विरदः । नजर्थप्रतेियोग्यवच्छिन्नतयै वेति। यद्यप्यभावस्येव भावरूपाज्ञानस्यापि विरोधितया न अर्थवमवेिशिष्टम्-तथाप्य