एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
क्ता बभूवुः । राजभिः किल नाम वीर्यं विद्या शीलम्
अलोभ आत्मजय इत्येषां गुणानाम् आयतनैर्भाव्यम् ।
ते जनानां हितान् धर्मान् मन्त्रसभायां संमन्त्र्य व्यवस्थापयामासुः । परिलघुः [१]करो जनेभ्य उत्थापित
आसीत् । तथा संगृहीतं धनम् [२]इष्टेषु [३]पूर्तेषु सेनाङ्गेषु
राजकार्याधिकृतेषु विद्वत्सु च विनियुक्तम् ।
कुलीनैर्विद्वद्भिर्ब्राह्मणैः सह राजानो व्यवहारान् स्वयम् अपश्यन् । राज्ञां जनेषु वात्सल्यम् अपत्येष्विवासीत् । जनानां च राजसु देवतास्विव भक्तिरासीत् । राज्ञां जनानां च परस्परविषयेषु समाचरणेषु स्वल्पोऽपि व्यतिक्रमो दैवकोपं जनयेद् इति दृढो विश्वासः स्थितः ।
जनद्रोहिणां राज्ञां निग्रहणेऽपि शक्तिः फलवती प्रवृत्तिश्च जनानाम् आसीद् इति वेनो[४]पाख्यानाद् अवगच्छामः ॥