पृष्ठम्:भारतानुवर्णनम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ५३ क्ता बभूवुः । राजभिः किल नाम वीर्य विद्या शीलम् अलोभ आत्मजय इत्येषां गुणानाम् आयतनैर्भाव्यम् । ते जनानां हितान् धर्मान् मन्त्रसभायां समन्त्र्य व्य- वस्थापयामासुः । परिलघुः करो जनेभ्य उत्थापित आसीत् । तथा संगृहीतं वनम् ईष्टेषु पूर्नेषु सेनाङ्गेषु राजकार्याधिकृतेषु विद्वत्सु च विनियुक्तम् । कुलीनैर्विद्भिर्ब्राह्मणैः सह राजानो व्यवहा- रान् स्वयम् अपश्यन् । राज्ञां जनेषु वात्सल्यम् अपत्येष्विवासीत् । जनानां च राजसु देवतास्विव भक्तिरासीत् । राज्ञां जनानां च परस्परविषयेषु समा- चरणेषु स्वल्पोऽपि व्यतिक्रमो दैवकोपं जनयेद् इति दृढो विश्वासः स्थितः । जनद्रोहिणां राज्ञां निग्रहणेऽपि शक्तिः फल- वती प्रवृत्तिश्च जनानाम् आसीद् इति वेनोपाख्या- नाद् अवगच्छामः ॥ 1. Tax. 2. ' अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् । आ- तिथ्यं वैश्वदेवश्च इष्टमित्यभिधीयते ॥' (मनु). 3. ' वापीकूपतटाका- दि देवतायतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥' (अत्रिः). 4. वेनो नाम दुर्वृत्तो राजा ब्राह्मणैर्निगृहीतः पृथुचक्रवर्ती च तत्स्थाने स्थापित इति ऐतिहासिकी कथा. , Digitized Diageaed by Google