एतत् पृष्ठम् परिष्कृतम् अस्ति
५२
युद्धे तेषां सामर्थ्यं भारतवासिनां शत्रूणां निग्रहात् स्पष्टम् । अश्वो रथो धनुर्बाणोऽन्यानि चायुधानि युद्धे तेषाम् उपकरणान्यासन् । कवचम् उष्णीषं च तैरुपयुक्तम् । तेनाश्वस्य शिक्षणे रथादीनां
निर्माणे च तेषां सामर्थ्यं व्यक्तं भवति ।
शिलायां दारुणि लोहे चार्याणां लोकोत्तरं नैपुण्यम् आसीत् । तद् अद्यापि बुद्धगयायां गिरिव्रजे उदयगिरिगुहासु पुरातनेषु चैत्येषु विहारेषु देवालयेषु च बहुषु साक्षात् कर्त्तुं शक्यते ।
वाणिज्यं [१]कुसीदं च सम्यग् आर्यैर्व्यवहृतम् आसीत् । द्विसहस्रवर्षेभ्यः प्रागपि महाम्बापुरे वाणिज्यस्याभिवृद्धिर्दृष्टा । बुद्धमतकालस्यान्तिमे भागे भारतस्य यवद्वीपेन चीनदेशेन च वाणिज्यसम्बन्धम् [२]अवगच्छामः । तदानीं ब्राह्मणानां समुद्रयात्रया तत्र गतागते चास्ताम् ॥
राज्यतन्त्रम्.
पुरा क्षत्रिया राज्याधिकारे विधिवद् अभिषि-