एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
बहुमानो राज्ञां जनानां चासीत् । अतश्च विद्याभ्यासे बाला अतिमात्रम् उद्यमिनोऽभवन् ॥
अभ्यवहारः
[१]गोधूमादि धान्यं क्षीरं दधि नवनीतं घृतं मांसं चार्याणां साधारणं भोज्यम् । तच्च देवेभ्यो निवेद्य भुक्तम् आसीत् । कालेन ते यज्ञाद् विशिष्टस्यातिथेः सत्काराच्चान्यत्र मांसस्योपयोगे प्रत्यवायम् अमन्यन्त । बुद्धमुनेः कालात् परतो ब्राह्मणा यज्ञमात्रे मांसम् उपयुक्तवन्तः । यो मांसं भक्षयितुम् इच्छति, तम् उद्दिश्यैव विहितः समांसो यज्ञ इति तु [२]पुराणान्युपदिशन्ति । मद्यस्य न केवलं पानं, तत्पायिनः संसर्गोऽपि दोषाय भवतीत्यार्याणां निर्णयः ॥
कृषिः शौर्यं शिल्पं वाणिज्यं च.
आर्याः कृषौ निपुणा इति प्राग् अवदाम ।