एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
विद्याम् अध्यापयामासुः । राजभिश्च विद्यामन्दिराणि
राजधानीषु परिकल्पितानि ।
[१]माणवकस्यावरतो द्वादश वर्षाणि गुरुकुले वासो भवेत् ; स गुरुं भक्त्या शुश्रूषमाणो विद्याम् अधीयीत; अथ [२]यथाशक्ति दक्षिणां गुरवे समर्प्य स गुरुकुलात् समावर्त्तेत । इत्येषा पुरातनी विद्याभ्यासरीतिः ।
समावर्तमानं च शिष्यं गुरुरेवम् अनुशास्ति-- [३]'सत्यं वद । धर्मं चर । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि' इति ।
न केवलं पुरुषाः, स्त्रियोऽपि पुरा विद्यां निरङ्कुशम् अभ्यस्यन्ति स्म । ताः किल ब्रह्मविद्यायाम् अपि निपुणा बभूवुरिति [४]उपनिषद् अस्मान् बोधयति । ये विद्वांसः, ये च प्रवक्तारः, तेष्वसामान्यो