सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०


विद्याम् अध्यापयामासुः । राजभिश्च विद्यामन्दिराणि राजधानीषु परिकल्पितानि ।

[]माणवकस्यावरतो द्वादश वर्षाणि गुरुकुले वासो भवेत् ; स गुरुं भक्त्या शुश्रूषमाणो विद्याम् अधीयीत; अथ []यथाशक्ति दक्षिणां गुरवे समर्प्य स गुरुकुलात् समावर्त्तेत । इत्येषा पुरातनी विद्याभ्यासरीतिः ।

समावर्तमानं च शिष्यं गुरुरेवम् अनुशास्ति-- []'सत्यं वद । धर्मं चर । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् । मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव । यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि' इति ।

न केवलं पुरुषाः, स्त्रियोऽपि पुरा विद्यां निरङ्कुशम् अभ्यस्यन्ति स्म । ताः किल ब्रह्मविद्यायाम् अपि निपुणा बभूवुरिति []उपनिषद् अस्मान् बोधयति । ये विद्वांसः, ये च प्रवक्तारः, तेष्वसामान्यो


  1. माणवक=boy.
  2. According to one's means.
  3. तैत्तिरीयोपनिषद् (१. ११).
  4. बृहदारण्यकम् (३. ६).