सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९


हस्रा हि यज्ञा वेदेषु प्रतिपादिताः । यज्ञेषु च महती श्रद्धा तेषां स्थिता ।

 क्रमेण तेऽग्न्यादीनाम् अपि कारणं विमृशन्तः []सर्वानुस्यूतं चिदानन्दरूपं वस्तु परब्रह्मशब्दितम् उपनिषद्भिर्व्यवस्थापयामासुः । अस्य निरन्तरया भावनया जीवानां मोक्षो भवति । अन्ये पुनरुपासनाभेदा एतस्याः परिचायकाः । आ मुक्तेर्जीवानां पुनर्जन्म भवतीति चार्याणामभ्युपगमः ।

 सत्यं शौचं दया दानं क्षमेति महागुणाआह् पुण्यहेतवः । अनृतं क्रोधः परदारसङ्गो मधुपानं लोभो हिंसेति दोषा महापातकहेतवः । एकदारनियमः पातिव्रत्यं च परमं ब्रह्मचर्यम् आर्याणाम् ॥

विद्याभ्यासः.

 विद्याविषये परमः फलवान् यत्न आर्यैरादृत आसीत् ।

 विद्वांसो विद्यार्थिनम् उपगतं धनानपेक्षया


  1. Omnipresent.