सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४८


नवीनाः पण्डिता आहुः । ईश्वरमुखाद् वेदा आविर्भूता इति वेदभक्ताः ।

ऋषय:.

 []वेदेद्रष्टारोऽन्ये च ये 'ऋषय' इति प्रसिद्धाः; ते प्राकृतान् जनान् अपेक्ष्य विद्यया गुणेन चारित्रेण चोत्कृष्टाः; न तु ते निग्रहेऽनुग्रहे वा शक्ता इति नवीनाः । निग्रहानुग्रहयोः शक्तिरपि तेषां स्थितैवेत्यार्याः ।

वैदिकमतम् .

 आर्या दैवम् अस्ति इति मतम् आश्रिताः ।  आपोऽग्निः सूर्यो वायुर्भूमिराकाश इत्येतेषां विशिष्टं महत्त्वं पश्यामः । एतैर्हि जायमानाः प्राणिनाम् उपकृतयः सङ्ख्यातुं न शक्यन्ते । अत एतेषु ते दैवबुद्धिं चक्रुः; []सत्योद्यैर्मन्त्रैरेतान् स्तुवन्ति स्म; पयसा घृतेन हविषा मांसेन च यजन्ते स्म । []परस्स-


  1. The seers of the Veda.
  2. Veracious.
  3. More than a thousand.