पृष्ठम्:भारतानुवर्णनम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४ जातिः. जातिर्वर्ण इत्युच्यते । सा चतुर्विधा प्रथते । यथा -- ब्राह्मणजातिः क्षत्रिय जातिर्वैश्यजातिः शूद्र- जातिरिति । आसु पूर्वपूर्वाम् अपेक्ष्योत्तरोत्तरां जातिम् अपकृष्टाम् आर्या अभिमन्यन्ते । उत्कृष्टजातेनिकृष्टजातेश्चनुलोमतः प्रेतिलो- मतश्च दाम्पत्ययोगात् पञ्चमी च कापि जातिः सङ्क- रजातिरिति गण्यते । अस्या अवान्तरविभागा बहवः कृताः सन्ति । तत्रानुलोमसङ्करः प्रशस्यते । अनुलोम- सङ्करजो हि पितृजातिम् उत्कृष्टां लभते । तत्र ब्राह्मणादीनां त्रयाणां यजनम् अध्ययनं दानम् इति साधारणं कर्म भवति । असाधारणं तु कर्म ब्राह्मणस्य याजनम् अध्यापनं प्रतिग्रहश्च, क्षत्रि- यस्य प्रजापालनम् ; वैश्यस्य कृषिर्वाणिज्यं शिल्पं चः शूद्रस्य वर्णत्रयशुश्रूषा | एवं सङ्करजातेरपि नानावि घा वृत्तयो व्यवस्थापिताः । = 1. In regular order = A man of high caste marrying a low- 2. This word is the opposite of अनुलोमतः. caste woman. Digitized by Google