सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४५


भारते वसन्तः सर्वे हिन्दवस्तेषामेव सन्तानाः ॥

आर्याणां भारताक्रमणम् .

 अथार्याः सहजाद् व्यवसायाद् ब्रह्मावर्तं ब्रह्मर्षिदेशं []मध्यदेशं चाक्रम्य क्रमेण विन्ध्यान्तस्य भारतस्य स्वामिनोऽभवन् । गच्छति काले दक्षिणापथं लङ्कां च तेषां प्रतापः प्रविवेश | अस्य भारताक्रमणस्याद्यन्तकालं []१६०० वर्षाणि वदन्ति ।

प्राञ्चो भारताभिजनाः

 प्राग् आर्याणां प्रवेशात् पञ्चनदादिषु देशेषु जनवर्गा उभये प्रतिवसन्ति स्म ।

 तेष्वेके मृगप्राया 'म्लेच्छा' 'राक्षसा' इति च शब्दिताः । प्रतीकारे यत्नवन्तोऽप्येते प्रबलैरार्यैः परिभूता बभूवुः । आर्यैर्जिताज्जिताच्च देशाद् अपसृत्य ते गिरीन् वनानि च प्रतिपेदिरे ।


  1. हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशनादपि । प्रत्यगेव प्रयागाञ्च मध्यदेशः स कीर्तितः ॥' (मनुः ) विनशनम् = the place where the river Sarasvati is lost in the sand.
  2. षट्शताधिकं सहस्रम्.