सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६


 सम्प्रति मध्यभारते वङ्गविषये राजस्थाने दक्षिणापथे च यान् वन्यजातिवर्गान् पश्यामः, ते तेषां सन्ताना []इत्यभिमानः ।

 अपरे तु वर्गा: []'तुरेनिय'नामानः []शकस्थानादिभ्यो देशेभ्य आगताः । एत आर्याणाम् आज्ञाकरा भूत्वा मताचारान् परिगृह्णन्ति स्म ।

 एषां च वंश्या आन्ध्रेषु द्रमिलेषु कर्णाटेषु केरलेषु चान्तर्भूता इत्यभिमानः ।

आर्याणां भाषा.

 आर्याणां भाषा पुरा संस्कृतम् आसीत् । तदातदा दृष्टान् विषयान् अधिकृत्य तया भाषया ते बहून् ग्रन्थान् क्रमेण रचयाम्बभूवुः येषूपदिष्टम् अर्थं तद्वंश्याः प्रमाणयन्ति ।

 ग्रन्थाश्च वेदो ब्राह्मणम् उपनिषद् इतिहासः स्मृतिः निरुक्तं शिक्षा व्याकरणं छन्दः कल्पो ज्यौतिषं गणितं साङ्ख्यं योगो बुद्धदर्शनं मीमांसा वैद्यकं पुराणम् इति नामभिः सप्रभेदाः प्रथन्ते ।


  1. Supposition.
  2. Turanians.
  3. शकस्थानं (Bactria) आदिर्येषां तेभ्यः.