पृष्ठम्:भारतानुवर्णनम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ जनानाम् उत्पीडाद् भोग्यविशेषेष्वभिलाषाञ्च तं देशं विहाय तत इतो गणशः प्रतस्थिरे । तेषु दक्षिणतः पारसीकान् अभि प्रस्थितेषु गणेषु कतिपये भारतं प्रविश्य सिन्धुनदस्य पश्चिमं तीरं प्रापुः । अर्याणां पञ्चनदवासः. अथ ते सिन्धुम् उत्तीर्य तं वितस्तां चन्द्र- भागाम् इरावतीं विपाशां शुतुद्रिं च नदीम् अन्तरा- 'स्थिताः पञ्च क्षितीः पञ्चदशब्दिता वशे चक्रुः । तत्र ते नवनवान् ग्रामान् नगराणि कृष्याणि च स्थलानि निरवर्तयन् । पञ्चसु क्षितिषु वासात् कृषिकर्मणोपजीवनाच ते पेञ्च कृष्टयः सम्पन्नाः । कृष्टय इति कर्षका उच्य- न्ते । ते हि गणाः कृषिकर्मणि निपुणा आसन् । तत एव तेषाम् आर्या इत्यपि नाम प्रतीतम् । 6 1. 'एषास्या युजाना परकात् पञ्च क्षितीः परि सद्यो जिगाति ' (ऋग्वे. अष्ट. ५. अ. ५. व. २२.) 2. यस्येक्ष्वाकुरुपते रेवान् मराय्येधते दिवीव पञ्च कृष्टयः' (ऋग्वे. अष्ट. ८. अ. १. व. २४.) Digitized by Google