सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२


यौरोपैः पण्डितैस्तदनुगामिभिश्च भाषाणां स्वभावं प्राचां संस्कृतग्रन्थानां वस्तुगतिं []शिलालेखांस्तांम्रशासनानि[] विदेशचरितानि[] चावलम्ब्य कयापि रीत्या तेषां पुरावृत्तम् अनुमितम् अस्ति । तदत्र संक्षिपामः । []बुद्धजन्मनोऽर्वाचीनानां[] वृत्तानां यथायथं कालं च निर्दिशामः ॥

कालविभागः.

 आर्याणां भारतप्रवेशात् प्रभृति आ महम्मदीयाक्रमणात् []३१६० वत्सरान् कालं कल्पयन्ति चरितचिन्तकाः ।

 स च काल एवं विभज्यते—[]११०१ तमादि []१७०१ तमान्तं कलिवर्षजातं वेदकालः; १७०१ तमादि []२१०१ तमान्तं ब्राह्मणकालः; २१०१ तमादि


  1. Inscriptions on stones.
  2. Inscriptions. on copper plates.
  3. History by foreigners.
  4. बुद्धजन्म = Birth of Buddha.
  5. Posterior.
  6. षष्ट्यधिकशतोत्तराणि त्रिसहस्राणि
  7. एकाधिकशतोत्तरसहस्रतमादि.
  8. एकाधिकसप्तशतोत्तरसहस्रतमान्तम्.
  9. एकाधिकशतोत्तरद्विसहस्रतमान्तम्.