एतत् पृष्ठम् परिष्कृतम् अस्ति
॥ श्रीः ॥
भारतानुवर्णनम् ।
पुरावृत्तप्रकरणं नाम द्वितीयो भागः ।
उपोद्घातः - भारते [१]हिन्दवस्तुरुष्का [२]यौरोपा अन्ये च जनाः प्रतिवसन्ति । तेषु हिन्दवो भूयिष्ठाः । हिन्दवश्चार्या इति पूर्वम् अवोचाम ।
तद् इदम् भारतखण्डम् इदानीम् [३]आङ्गलो राजा [४]शास्ति । अस्मिन्नन्तर्गतान् कांश्चिद् देशान् हिन्दवस्तुरूष्काश्च राजान आङ्गलानां [५]साम्राज्यस्यधश्चराः[६] सन्तः पालयन्ति ।
आङ्गलानां साम्राज्यात् प्राक् षट् शतानि वर्षाणां [७]महम्मदीया भारतम् उपभुञ्जते स्म । ततः पूर्व तु वर्षाणां सहस्राणि भारतम् आर्येष्वधीनं बभूव ।
तेषाम् एतेषाम् आर्याणां चरितम् आदितः प्रभृति आ महम्मदीयानां भारतप्रवेशाद् न कुत्रापि ग्रन्थेऽनुक्रमेण तत्त्वतो निर्दिष्टम् । किन्त्वाधुनिकै-