एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
अस्य देशस्य सम्बन्धाद् अश्वस्य सैन्धव इति
संज्ञा निष्पन्ना ॥
हैहयाः – 'हैहयदेशो' नर्मदासम्बद्धो मालवदेशाद् दक्षिणतोऽस्ति । अत्र नर्मदायास्तीरे [१]'माहिष्मती' नाम राजधानी बभूव ॥
विदर्भाः--[२]' विदर्भराज्यं' पुरा कृष्णाकूलात् प्रभृति आनर्मदातीराद् विततम् आसीत् । इदं महत्त्वाद् [३]‘महाराष्ट्रम्’ इति व्यवहृतम् ।
[४]कोङ्कणावधिकात् पश्चिमपर्वतभागात् पूर्वः साम्प्रतिकाद् विदर्भदेशात् पश्चिमो देशोऽधुना 'महाराष्ट्रम्' उच्यते ।
विदर्भेषु प्रधाननगरं 'विदर्भपुरम्' इति 'कुण्डिनपुरम्' इति चोच्यते । तच्च सम्प्रति [५]'विदर्’ इति प्रतीतं सम्भाव्यते ॥
उत्कलाः -- ताम्रलिप्त्या दक्षिणत आकपिशानदि [६]'उत्कलदेशो' विततोऽस्ति । अयम् 'ओड्र-