एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
अत्र 'रैवतकगिरि'स्तिष्ठति । विश्रुतं 'प्रभासतीर्थं' [१]'सोमनाथक्षेत्रं' चात्र विद्योतेते । आसीद् अत्रान्या च राजधानी Walabi ( north-west of Bhownaggar).'वलभिः' इति, या 'बलभद्रपुरी' इत्युच्यते ॥
लाटाः -- नर्मदायाः पश्चिमतो 'लाटदेशः' । [२]बटोदरपुरराज्यं हिन्दुराजपालितं तत्रान्तर्भूतं वदन्ति ॥
राजस्थानम् – यो गुर्जरदेशात् पश्चिमोत्तरो [३]‘मरुवारो' वर्तते, तेनार्बुदेन च संसृष्टं [४]'राजस्थानं ' भवति । तत्रान्तर्गतानि [५]जयपुरादीनि राज्यानि [६]राजपुत्रजातीया राजानः पालयन्ति । अर्बुददेश्या [७]'अर्बुदा' इति व्यवहारम् अर्हन्ति ॥
[८]सिन्धुदेशः--'सिन्धुनदमुखस्य भूमय आसन्नमरुभागाश्च सिन्धुदेशेऽन्तर्भवन्ति । भारतप्रसिद्धस्य धृतराष्ट्रस्य जामाता जयद्रथः सिन्धुदेशम् अशिषत् । अत्र [९]पाटलपुरं प्रधाननगरम् ।