सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२


देशः' इत्युच्यते । अत्र समुद्रवेलायां [१]'पुरी' इति नगरम् अस्ति । अत्र पुण्यं जगन्नाथक्षेत्रम् उल्लसति । अस्य समीपे ' भुवनेश्वरम्' अस्ति, यत्र शिवक्षेत्रम् उल्लसति ॥

 कलिङ्गाः -- उत्कलदेशाद् दक्षिणतः 'कलिङ्गदेशः' । अस्य [२]‘कलिङ्गनगरम्' इति राजधानी समुद्रवेलाया अनतिदूर आसीत् । अस्मिन् देशेऽन्तर्गतो महेन्द्रमाली गिरिः ॥

 अन्ध्राः – 'अन्ध्रदेशः ' कलिङ्गदेशाद् अनन्तरो गोदावरीकृष्णयोर्मध्ये निविशते । अस्य राजधानी 'अन्ध्रनगरम्' आसीत् । तच्चाद्यत्वे [३]'वेङ्गी इति प्रसिद्धं सम्भाव्यते । [४]भाग्यपुरराज्ये'ऽयं देशो भूयिष्ठम् अन्तर्भवति । तच्च महम्मदीयो राजा पालयति । तस्य राजधानी [५]'भाग्यपुरम्' इत्युच्यते ।

 त्रैलिङ्गदेशोऽप्यन्ध्रदेशेऽन्तर्गतः । त्रीणि शिव-


  1. ↑ Puri Jagannath.
  2. ↑ Northern sircars.
  3. ↑ Vengi or Vegi.
  4. ↑ भाग्यपुरराज्यम्= Hyderabad state.
  5. ↑ Hyderabad.