पृष्ठम्:भारतानुवर्णनम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ राजाभवत् । महाभारतसमयेऽस्य राज्यस्य भगदत्तो 6 राजा बभूव | भगदत्तस्य 'चीना' हिमालयपादस्थाः किराताश्च वशेऽभवन् । तैः सहितम् एनम् अर्जुनो जिगाय । अस्य राजधानी 'प्राग्ज्यौतिषं' नाम || 6 भर्मदेशः— भारतस्य पूर्वसीमायां 'भर्मदेशो'- - ऽस्ति । स देश: 'सुवर्णभूमिः' इत्युच्यते । एष धा- न्यानां भवनैः क्षेत्रै रत्नानाम् आकरैश्वोपसम्पन्नश्चका- स्ति । अस्य राजधानी 'अमरपुरम् ॥ निषधाः- - सिन्धुनद्यास्तीरे निषधदेशः । त- स्य ‘नैर्वार्’ इति व्यपदिश्यमानं 'नलपुरं' राज- धानी सम्भाव्यते । अत्र भारतप्रसिद्धो नलो नाम राजा राज्यमशिषत् ॥ चेदिदेश:--' चन्दरी' इति सम्प्रति माल- वेषु विदितां पुरीं 'चेदिपुरीं' वदन्ति । तेनोपलक्षि तो देश: 'चेदिदेशो' भवति । अत्र श्रीकृष्णस्पर्धी शिशुपालो राजा बभूत्र ॥ 1. Chinese. 2. उत्पत्तिस्थानैः 3. Narwar. 4. Chandali. Digitized by Google