पृष्ठम्:भारतानुवर्णनम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ - मालवाः – स 'मालवदेशो ', यत्र उज्जयि - नी देशपुरं च नगरे; धारा च । अस्य 'अविन्तिदेश इति नामान्तरम् अस्ति । उज्जयिनी चावन्तिपुरी- त्युच्यते । उज्जयिनी पुरा ग्रहपरीक्षकैः खमध्यस्थानं कल्पितम् आसीत् । उज्जयिन्यां प्रख्यातं शिवक्षेत्रम् अस्ति यत्र देवो महाकालनाम्ना प्रथते ॥ दशार्णाः - - मालवानां पूर्व भागं दशार्णदेशं वदन्ति । अस्य राजधानी वेत्रवत्यास्तीरे 'विदिशा ' इति नाम्ना बभूव ॥ सौराष्ट्राः –' सौराष्ट्र देशो' मालवदेशात् प- श्चिमतोऽस्ति । अयम् अद्यत्वे 'गुर्जरदेश' इत्युच्यते । इदं श्रीकृष्णस्य राज्यम् आसीत् । अत्र 'द्वारका' नाम नगरी विद्यते । अस्या दक्षिणपूर्वत उपशतक्रो- शदूरे पुरातनी द्वारकापुरी आसीत् । इयं 'द्वारावती' इत्यपि कथ्यते । इदं नगरं देशस्यानर्तसंज्ञया 'आ- नर्तनगरम्' इत्यप्याख्यातं बभूव । 1. Malwa. 2. Oujain. 3. Dholpur, on the Chambal. 4. Dhar. 5. Meridian. 6. Bilsa. 7. Guzarat. Digitized by Google