एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
राजाभवत् । महाभारतसमयेऽस्य राज्यस्य भगदत्तो
राजा बभूव । भगदत्तस्य [१]'चीना' हिमालयपादस्थाः
किराताश्च वशेऽभवन् । तैः सहितम् एनम् अर्जुनो
जिगाय । अस्य राजधानी 'प्राग्ज्यौतिषं' नाम ॥
भर्मदेशः - भारतस्य पूर्वसीमायां 'भर्मदेशो’ऽस्ति । स देशः 'सुवर्णभूमिः' इत्युच्यते । एष धान्यानां [२]भवनैः क्षेत्रै रत्नानाम् आकरैश्चोपसम्पन्नश्चकास्ति । अस्य राजधानी 'अमरपुरम् ॥
निषधाः- - सिन्धुनद्यास्तीरे निषधदेशः । तस्य[३]‘नर्वार्' इति व्यपदिश्यमानं 'नलपुरं' राजधानी सम्भाव्यते । अत्र भारतप्रसिद्धो नलो नाम राजा राज्यमशिषत् ॥
चेदिदेश:--[४]'चन्दरी' इति सम्प्रति मालवेषु विदितां पुरीं 'चेदिपुरीं' वदन्ति । तेनोपलक्षितो देश: 'चेदिदेशो' भवति । अत्र श्रीकृष्णस्पर्धी शिशुपालो राजा बभूव ॥