पृष्ठम्:भारतानुवर्णनम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ ष्ठम् उपजायते, यथा देशनामतस्तस्य काश्मीरम् इति नामधेयं निष्पन्नम् । अत्र 'श्रीनगरम्' इति नाम्ना प्रधानं पुरम् उल्लसति । कश्मीरराज्यं हिन्दुना राज्ञा पाल्यते ॥ -- गन्धाराः - 'गन्धारदेशः' सिन्धोरपरतीरे क श्मीरदेशात् पश्चिमतः सैन्निविशते । अत्र पुरुषपुरं पुं- ष्करावतं च प्रधाननगरम् आसीत् । दुर्योधनस्य मा- तुलो भारतप्रसिद्धः शकुनिरत्र राजाभवत् । अत्र व्याकरणकर्तुः पाणिनिमुनेर्जन्मभूमिः 'सैलातुरं' वर्त - ते । अस्माद् उत्तरतः 'सुवास्तुदेशः' ॥ पञ्चनदः -- ‘पञ्चनददेशः ' कश्मीरदेशाद् द- क्षिणतोऽस्ति । अत्र पञ्च नद्यो वितस्तादयः स्यन्दन्ते । अतोऽयं देशः पञ्चनद उच्यते । सिन्धुषष्ठानाम् आसाम् अन्तरालेषु कुँलूताद- यो बहवो जनपदा विद्यन्ते । 'लवपुरं' 'कुंशपुरं ' 1. Srinagar. 2. Is situated. 3. Peshawar. 4. Hashta- nagar. 5. Lahor. 6. The country of Swat. 7. कुलूताः मद्राः आरट्टा यौधेयाः (आयुधजीविदेशः) etc. कुलूताः=Kulu. 8. Lahore. 9. Kusawar. Digitzed by Google