सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१


ष्ठम् उपजायते, यथा देशनामतस्तस्य काश्मीरम् इति नामधेयं निष्पन्नम् । अत्र []'श्रीनगरम्' इति नाम्ना प्रधानं पुरम् उल्लसति । कश्मीरराज्यं हिन्दुना राज्ञा पाल्यते ॥

 गन्धाराः - 'गन्धारदेशः' सिन्धोरपरतीरे कश्मीरदेशात् पश्चिमतः []सन्निविशते । अत्र []पुरुषपुरं []पुष्करावतं च प्रधाननगरम् आसीत् । दुर्योधनस्य मातुलो भारतप्रसिद्धः शकुनिरत्र राजाभवत् । अत्र व्याकरणकर्तुः पाणिनिमुनेर्जन्मभूमिः []'सलातुरं' वर्तते । अस्माद् उत्तरतः []'सुवास्तुदेशः' ॥

 पञ्चनदः -- ‘पञ्चनददेशः' कश्मीरदेशाद् दक्षिणतोऽस्ति । अत्र पञ्च नद्यो वितस्तादयः स्यन्दन्ते । अतोऽयं देशः पञ्चनद उच्यते ।

 सिन्धुषष्ठानाम् आसाम् अन्तरालेषु []कुलूतादयो बहवो जनपदा विद्यन्ते । []'लवपुरं' []'कुशपुरं '


  1. Srinagar.
  2. Is situated.
  3. Peshawar.
  4. Hashtanagar.
  5. Lahor.
  6. The country of Swat.
  7. कुलूताः मद्राः आरट्टा यौधेयाः (आयुधजीविदेशः) etc. कुलूताः=Kulu.
  8. Lahore.
  9. Kusawar.