सामग्री पर जाएँ

पृष्ठम्:भारतानुवर्णनम्.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९

 कावेरी --’[] कावेरी' सह्यपर्वताद् आविर्भूय प्रथमं पूर्वाभिमुखी ततो दक्षिणाभिमुखी पुनः पूर्वाभिमुखी च स्यन्दते । []उपश्रीरङ्गपत्तनम् एषा द्विधात्मानं कृत्वा पश्चाद् एकीभवति; अन्ते च बहुभिर्मुखैः पूर्वाब्धिं प्रविशति । एतदीया स्रोतस्सरणिः []४७५ क्रोशान् दीर्घा भवति ॥

 वेगवती –'वैगै' इति प्रसिद्धा '[]वेगवती' मलयपर्वताद् उद्भूय []मधुरापुरद्वारेण पूर्वतो गच्छति । इयम् अन्तर्वाहिनी । अतोऽस्यां प्रायो वर्षास्वेव स्रोतो लक्ष्यं भवति । आराच्च []रामसेतोः समुद्रेणैषा सङ्गच्छते । इमां 'कृतमाला' इति 'शिवगङ्गा' इति च वदन्ति ॥

 ताम्रपर्णी –'[]ताम्रपर्णी' मलयपर्वताद् आविभूय पूर्वदिशा प्रवहन्ती पूर्वाब्धिना संयुज्यते । अ-


  1. Kaveri River.
  2. Near Srirangapatam.
  3. पञ्चसप्तत्यधिकानि चतुश्शतानि
  4. Vaigai River.
  5. Through Madura.
  6. रामसेतु: = Adam's bridge.
  7. Tambrapurni River.