पृष्ठम्:भारतानुवर्णनम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

भैषज्यम्---चिरविच्युतमप्यभिवृद्धरार्यभैषज्यं तत्पक्षपातिनः कतिपये न खलु नाद्रियन्ते । न च न फलं दर्शयति यावद्यनं जनेषु तत् ॥ दैवविज्ञानम् --भूतं भाविनं वार्थ प्रति पृष्टो दैवज्ञः प्रश्नकालिकी प्रष्टुर्जन्मकालिकी वा ग्रहाणां स्थितिम् अवलम्ब्य तम् अर्थ वक्ति । दैवज्ञोक्तरर्थतः संवादस्यापि दर्शनाद् विसंवादा दैवज्ञस्यापाण्डित्यमेव विशदयन्ति; न तु ज्यौतिषफलशास्त्रस्याप्रामाण्यम् इति हिन्दूनां सामान्यः प्रत्ययः । तस्यैतस्य प्रत्ययस्योपोडलकं किमपि दैवज्ञचरितम् अस्ति । चोलदेश उपकुम्भघोणवर्तिनि ‘वलाङ्गिमान्' इत्याख्याते ग्रामे श्रेष्ठी गोविन्दो नाम दैवज्ञो जीवति। ___स प्रष्टुकामं जनम् अपरिचितं देशान्तराद् द्वीपान्तराद् वा स्वगृहम् आगतम् ‘उपविश' इत्येकां वाचम् अभिधाय लेखन्या पत्रे किमपि लिखितुम् आरभते । पञ्चषैश्च निमेषैलेखनं परिसमाप्य मु Digitized by Google