पृष्ठम्:भारतानुवर्णनम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितं तत् पत्रं प्रष्टुरग्रे स निवेशयति; तेन सह क्षणं कृतसम्भाषणश्च 'पत्रं वाचय' इति तम् आदिशति । पत्रे तु प्रष्टुर्देशो नामधेयं जीविका भार्यापुत्रा- दिनामानि जिज्ञासितं प्रधानवस्तु इत्येतेऽर्था द्रमिल- भाषया विवृता उपलभ्यन्ते । - 'यत् किमप्युच्यताम्' इति सम्भाषणकाले दैवज्ञचोदितेन प्रष्ट्रा पद्यं पशुपक्ष्यादिनाम वा संस्कृ तभाषारूपम् आङ्गलभाषारूपम् अन्यभाषारूपं वा यद् उच्चारितं भवति, तत् सम्भाषणप्राक्काललिखिते तस्मिन् पत्रे द्रमिललिप्या विन्यस्तं दृश्यते । पश्यताद्भुतम् -- कथं पुनरयं द्रमिलभाषा- मात्रस्याभिज्ञो दैवज्ञः स्वप्नेऽप्यविदिताया भाषायाः शब्दानुपूर्वीम् अन्येन वक्ष्यमाणां विदितवान् । अस्यै- वम्प्रायं चरितम् अद्यापि साक्षात् कर्तुं शक्यं तस्मिन् ग्रामे | एवञ्जातीयकस्याद्भुतवस्तुनः पर्यालोचनायाम् इतिहासकथिता आर्षाः प्रभावा न तावद् असम्भा व्या भवन्ति । Digitzed by Google