पृष्ठम्:भारतानुवर्णनम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


सीकैस्तद्विकारो [१] हिन्दुशब्दः प्रयुक्तः । अतस्तेषां स्थानं हिन्दुस्थानम् इति प्रसिद्धम् । अस्य ’आर्यावर्त’ इत्यपि संज्ञा समन्ताद् आर्याणाम् अत्र वर्तनात् । आर्या आवर्तन्ते पुनः पुनर्जायन्तेऽत्रेयतो वा तथा व्यपदेशः [२]

गङ्गया [३] सिन्धुनदेन च सम्बद्धाः प्रदेशाः सिन्धोरभिमुखो मरुः [४] [५] इति प्रसिद्ध उन्नतो देशश्च हिन्दुस्थानस्य भूमयः ॥

दक्षिणापथः--विन्ध्याद् दक्षिणो भागो ’दक्षिणापथ ' [६] उच्यते ।

विन्ध्यादनन्तरास्तावद् गम्भीरा नर्मदातटा [७] वर्तन्ते । तत ऋक्षपर्वतोऽस्ति [८] । ततो निम्नस्तपतीनद्याः प्रदेशः । ततः पूर्वया पश्चिमया च गिरिश्रेण्या [९]समुपश्लिष्टास्त्रकोणप्रायः [१०] कुमारीपर्यन्त उन्नतो देशो

  1. तस्य (सिन्धुशब्दस्य ) विकार:= Corrupt form.
  2. Naming.
  3. गङ्गा = Genges.
  4. Desert.
  5. ’मध्यमारतम्’
  6. Deccan.
  7. Valleys of the Nerbudda.
  8. Satpura mountains.
  9. गिरिश्रेणी= Range of mountains,
  10. Triangular.