पृष्ठम्:भारतानुवर्णनम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विद्यते । त एते प्रदेशाः पूर्वपश्चिमयोर्गिरिश्रेण्योः समुद्रस्य च निम्नवक्रा [१] मध्यभागाश्च दक्षिणापथस्य भूमयः ।

 गुर्जरदेशो [२] वङ्गदेशश्च [३] हिन्दुस्थानस्य सामीप्यात्‌ तत्रान्तर्भवतः ॥

सहजलक्षणानि

[४]

 भूमेः सहजानि लक्षणानि यानि सम्भाव्यन्ते, तानि सर्वाणि भारते पश्यामः। अत्र हि तुङ्गाः पर्वताः सन्ति; भीषणानि वनानि विद्यन्ते; विस्तीर्णा उर्वरा [५] उपलभ्यन्ते; आजयः [६] सिकतिलाः [७] प्रदेशा मरवो मालानि [८] च वर्तन्ते, नद्यो बहुलाः प्रवहन्ति; महान्ति च सरांसि [९] समुल्लसन्ति ॥


पर्वताः.

हिमालयः

-'हिमालयः’ पूर्वापरायतस्तिष्ठति [१०]


  1. Deep and narrow.
  2. Guzerat
  3. Bengal.
  4. Natural features.
  5. Fertile soil.
  6. Level ground.
  7. Sandy.
  8. Rising ground.
  9. Lakes.
  10. Extending from east to west.