पृष्ठम्:भारतानुवर्णनम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


 अस्य दैर्ध्यम् उत्तरतः कश्मीरदेशात् [१] प्रभृति दक्षिणत आ कुमार्याः [२] १९०० [३] क्रोशान् [४] व्याप्नोति । अस्य विस्तारः पश्चिमतः सिन्धुमुखात् प्रभृति आ कामरूपस्य [५] पूर्वावधेः १८०० [६] क्रोशान् अतिगच्छति । चतुरश्रमानं [७] चास्य १६३२००० [८] क्रोशान् आहुः ॥

 आर्यावर्तः–अक्षांशवृत्तस्य [९] त्रयोविंशस्य पञ्चविंशस्य चान्तराले विन्ध्यो [१०] नाम पर्वतस्तिर्यग् भारतम् आक्रम्य तिष्ठति । तस्योत्तरो भागो 'हिन्दुस्थानम्' [११] इत्याख्यातः ।

 पुरा तावद् आर्या [१२] देशान्तराद् भारतं प्रविष्टाः सिन्धुनदस्य तीरं प्रथमम् अधिवसन्ति स्म । तेषु सिन्धुसम्बन्धात् सिन्धुशब्दे प्रयोक्तव्ये तत्समीपैः पौर-[१३]


  1. कश्मीरदेश = Kashmere.
  2. कुमारी = Cape Comorin
  3. नवशताधिकं सहस्रम्
  4. Miles.
  5. कामरूपम् = Assam.
  6. अष्टशताधिकं सहस्रम्
  7. Square measure.
  8. द्वात्रिंशत्सहस्राधिकानि षोडश लक्षाणि
  9. अक्षांशवृत्तम् = Parallel of Latitude.
  10. Vindhya mountains.
  11. Hindustan.
  12. Aryans.
  13. पारसीका: = Persians.