पृष्ठम्:भारतानुवर्णनम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीगणेशाय नमः ।

भारतानुवर्णनम् ।

भूप्रकरणं नाम प्रथमो भागः ।

भारतम्.

 इदं तावद् 'भारतम्' इत्याख्यायते, 'भरतखण्डम्' इति च, यदधुना जना 'इन्द्या[१]' इति नाम्ना व्यवहरन्ति । अस्य 'भारतम्' इति संज्ञा पुरा भरतनाम्ना चक्रवर्तिना परिपालनात् सिद्धा ।

 अस्य सीमा हिमालयः[२] सिन्धुनदः[३] समुद्रश्च । तत्रोत्तरा सीमा हिमालयो भवति; पूर्वा सीमा भर्मदेशो[४] वङ्गमहासमुद्रश्च; [५] दक्षिणमहार्णवो [६] दक्षिणा सीमा; पश्चिमसमुद्रः [७] सिन्धुनदश्च पश्चिमा सीमा ।


  1. India.
  2. Himalaya mountains.
  3. Indus.
  4. Modern Burmah. भर्म means ‘gold'. The 'सुवर्णभूमि' to which Asoka sent missionaries seems, therefore to be Modern Burmah as identified by Beal
  5. Bay of Bengal.
  6. Indian ocean.
  7. Arabian sea.