पृष्ठम्:भारतानुवर्णनम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ अखिलं राज्यं शास्ति स्म । महाभाष्यकारो भगवत्प- तञ्जलिरस्य याजक आसीद् इति पण्डितानाम् ऊहः । ऊहस्थानं च 'इह पुष्यमित्रं याजयाम' इति महा- भाष्ये दत्तं लट उदाहरणम् आहुः । पुष्यमित्रस्य पुत्रोऽग्निमित्रो नाम । अयमेव सुकृती कविचक्रवर्तिना कालिदासेन मालविकाग्निमि त्रे नाटके कथानायकः कृतः । पुष्यमित्रवंश्याः शुभा इत्युच्यन्ते । शुङ्गवंश्येष्वन्तिमं राजानं निहत्य तन्मन्त्री वासुदेवो नाम राज्यं स्वायत्तं चक्रे । तदंश्याः काण्वा इत्युच्यन्ते । तेष्वन्तिमं हत्वा शिप्रको नाम तकृत्य आन्ध्रवंश्यो राज्यम् अपजहार । शिप्रकवंश्यास्त्रि- शद् राजानः ४५६ वर्षाणि राज्यम् अकारयन् । सेयं मगधराजानां परम्परा विष्णुपुराणेऽनुवर्णिता । १ अवसितेष्वान्धेषु नानाजातीयैर्मगधराज्यम् आक्रम्य व्याकुलितम् आसीत् ॥ 1. षट्पञ्चाशदधिकानि चतुःशतानि । Digitized by Google