पृष्ठम्:भारतानुवर्णनम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैदिशिकसंवादः चन्द्रगुप्तपार्श्ववर्ती मेगस्तनीश आत्मना प्रत्य- क्षितां भारतस्थितिं वर्णयाञ्चकार । तदात्त्रे जनानां विद्या, सम्पत, सद्गुणाः, शिल्पविज्ञानं, विदेशैः सह वाणिज्यसंव्यवहारः, स्त्रीणां वैदुष्यं, पातिव्रत्यं चाह- श्यतेति स वदति । ततः प्राचीनः कश्चिद् ऐतिहासि को यवनपण्डित आह -- तात्कालिकान् जनान् स- र्वान् अपेक्ष्य प्राधान्यं विदग्धत्वं च हिन्दूनां स्थितम् इति । . २. अपि च चीनदेशाद् ३५०० तमे वर्षे कश्चिद् ४ यात्रिकः पाहियानो नाम भारतम् आगतः; ३७३८ तमे वर्षे च हिंयून्त्साङ्गनामापरः । ताभ्यां लिखिते चरितग्रन्थे तादात्विकी भारतस्थितिर्भूयिष्ठम् अभि- नन्द्यते ॥ 1. Information from the foreigners. 2. पञ्चशताधिकत्रिसह- स्रतमे. 3. Fshian. 4. अष्टात्रिंशदधिक सप्तशतोत्तरत्रिसहस्रतमे. 5. Hewn-thsang. Digitized by Google