पृष्ठम्:भारतानुवर्णनम्.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मगधराजाः. १ मगधेषु जरासन्धात् प्रभृति राजानो द्वाविं- शतिरासन् । एते बृहद्रथवंश्या इत्युच्यन्ते । तेषु चरमं रिपुञ्जयं हत्वा तस्य मन्त्री शुनिकः स्वपुत्रं प्रद्योतनं राज्येऽभिषिषेच। तद्वंश्याः पञ्च प्रद्योता नाम १३८ व र्षाणि राज्यम् अकारयन् । तेषाम् अवसाने शिशुना- गो राजा बभूव । तइंश्या: शैशुनागा दश राजानो राज्यं ३६२ वर्षाप्यपालयन् | तेषु चरमो महानन्दी । तस्य शूद्रायां जातो नन्दः । नन्दोऽष्टभिः पुत्रैः ५० वर्षाणि राज्यं बुभोज । ततो मौर्यश्चन्द्रगुप्तो राज्यम् अशिषद्, यस्य चाणक्यः सहायः प्रख्यायते | २ चन्द्रगुप्तवंश्येषु चरमं राजानं बृहद्रथं निहत्य तत्सेनापतिः पुष्यमित्रः सिंहासनं भेजे । अयं २९२३ ४ ५ तमस्य २९५९ तमस्य च कलिवर्षस्यान्तरालकालम् ● 1. अष्टात्रिंशदधिकं शतम् 2 द्वाषष्टयधिकानि त्रिशतानि 3. पञ्चाशतम् 4. त्रयोविंशत्यधिकनवशतोत्तरद्विसहस्रतमस्य 5 ए कोनषष्ट्युत्तरनवशतोत्तराद्वसहस्त्रतमस्य | . Diageaed by Google Digitized