पृष्ठम्:भारतानुवर्णनम्.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९० हासनम् आरुरोह । आ कृष्णवेण्या आ च गान्धा- रदेशाद् अमुष्य निरङ्कुशं साम्राज्यम् अभवत् । बुद्धमतं प्रविष्टोऽप्यसौ ब्राह्मणान् बौद्धांश्च तु- ल्यदृष्ट्या पूजयामास । मतान्तरश्रद्धालूनां जनानां बुद्धमते प्रवेशनम् आत्मप्रियमध्यप्रसभाद् ज्ञानोपदे- शेन साधनीयम् आज्ञापयामास । एनेन कारिताः शिलालेखाः प्रयाग इन्द्रप्रस्थे गुर्जरेषूत्कलेषु चोपल- भ्यन्ते । अयं प्रजावत्सलः कारुणिकोऽवदातचरितो लोकोत्तरः सम्राड् इति तेभ्योऽवगच्छामः । एष न केवलं भारते, किन्तु शकस्थाने ची- नेषु च बुद्धमतं प्रचारयितुं तत्त्वोपदेशनिपुणान् बौ- द्वान् प्राहिणोत् । स्वस्य भ्रातरं महेन्द्रं स्वसारं सङ्घ- मित्रां च तदर्थे लङ्कां प्रति स प्रेषयामास । २ अथ २८७८ तमे वर्षे स गृहीतकाषायस्तदु त्तरे वर्षे निर्वाणं प्रपेदे ॥ 1. Not by force. 2. अष्टसप्तत्युत्तराष्टशताधिकद्विसहस्त्रतमे। Digitized by Google