पृष्ठम्:भारतानुवर्णनम्.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अयम् अर्थः प्रयागतो लब्धाल्लेखाद् अवगम्यते । आर्यावर्त्त: कामरूपं काञ्ची केरलदेशश्च तस्य शा सनेऽवर्तन्त | मालवपतिर्मद्रेश्वरः सिंहलेश्वरश्च तस्मै करं दत्तवन्तः । तत्पिता द्वितीयश्चन्द्रगुप्तः । समुद्रगु- तस्य पुत्रः कुमारगुप्तः सार्वभौम आसीद् इति लेखा- न्तराद् ज्ञायते । गुप्तवंशे विश्रुतेषु राजसु चरमः स्क- न्दगुप्तः ॥ अशोकः. अलकसान्द्रे भारतान्निष्क्रान्ते मगधराजो मौ- र्यश्चन्द्रगुप्तः स्वसाम्राज्यम् उपचितं चकार । तस्य हि षट् लक्षाणि पदातयस्त्रीण्ययुतान्यश्वा नव सह- स्राणि गजाश्च सेनायां स्थिताः । तस्य पुत्रो बिन्दु- सारो गुणैः पितरम् अनुचकार । बिन्दुसारस्य सुभ द्राङ्गयां ब्राह्मण्याम् अशोको नाम सूनुरजायत । स पित्रा बाल्य उज्जयिन्यां स्वप्रतिनिधिः स्थापितः । १ पितुरनन्तरम् असौ २८४२ तमे कलिवर्षे सिं- 2. द्वाचत्वारिंशदधिकाष्टशतोत्तर द्विसहस्र तमे । १२ Digitized by Google