तदवधि कुशली पुराणशास्त्र- |
तदवधीति । श्रीराम एव हे सखि, विवेकः कुशली क्षेमशाली तदवध्येव तावत्कालमेव । न तूर्वमित्यार्थिकम् । किमवधीति तदाकाङ्कितं पूरयति—यदवधी त्युत्तराधैन। हरिणेति साभिप्रायम् । कुरङ्गशावाक्ष्या इत्यर्थः । तत्रापि दृशोः, न तु दृशः। तत्रापि विलासःन तु भासः । एतेन सानुरागापाङ्गतरङ्गितवं तत्र व्यज्यते । स यदवधि चित्ते नायकमनसि पदम् । चरणोपलक्षितं खसंचारमिति यावत् । न दधाति तदवधीत्यादि पूर्वेण संबन्धः । ननु नह्यापातिकलौकिकविवेकमात्रेण कामि- नीविषयकः कामः शाम्यत्यतो निरुक्तविवेकं विशिनष्टि-पुराणेति । उत्तरोत्तरा धिक्यध्वननार्थ शास्त्रादिग्रहः तासामपि शतं तस्यापि चारुरुपक्रमादितात्पर्यावधार णपूर्वकःन त्वापातिकः । ‘शतवारविचार-’ इति पाठे तु ‘आवृत्तिरसकृदुपदेशात् ’ इत्यधिकरणार्थं बोध्यः । एतादृशो यो विचारः प्रमाणानुग्राहकलैौकिकादियुक्त्यूह्य पोहस्ततो जायत इति तथेत्यर्थः। ईदृशोऽप्यसौ तावदेवायुष्मान्यावन्नोतकटाक्ष च्छटास्मृतिरतः सैव शीघ्र त्वया प्रसादनीयेत्याशयः । उक्तं हि-‘अनुरक्ताङ्गन- लोललोचनालोचनाकृति । खस्थीकर्तु मनः शक्तो न विवेको महानपि ॥’ इति । अत्र विवेकस्य निरुक्तजन्यतोक्त्या नित्यसिद्धविवेकाख्यसार्वभ्यशक्तेः श्रीकृष्णस्य व्युदासः सूचितः। श्रीरामस्य तु वृहद्वसिष्ठोक्तरीत्या सनत्कुमारदत्तावरणागमनशा पाङ्गीकरणलक्षणभक्तानुप्रहणादिमनुष्यनाट्यलीलानटनपाटववत्वेन तदुचितमेवेति न कोऽपि शङ्कावकाशः । इह हरिणेत्यादौ परिकराङ्करादिरलंकार एवाधिकः । पर कीयामध्यान्तरा नायिकादिकं तु सर्वे प्राग्वदेव । श्रीकृष्णे मोशवर्णनात् ॥
अथौत्कण्ठ्यौत्कठ्याच्छीरामस्तावन्निरुक्तसखीसमक्षमेव खमनोरथं प्रथयति--
आगतः पतिरितीरितं जनैः |
आगत इति । भो भर्तृदारिके सीते, तव पतिः श्रीरामस्त्वन्मन्दिरं प्रत्ययमा गत इति जनैः सखीजनैरीरितं कथितं वाक्यजातं श्रुण्वत्येव सती, न तु श्रुत्वा ।