तेनादरातिशयो द्योत्यते । अत एव चकितं यथा स्यात्तथा। देहलीम् । प्रत्युद्वमन विधया मन्दिरद्वारान्तःप्रदेशस्थलीं प्रतीत्यर्थः । एतेन मर्यादातिशयः सूचितः । एवं चकितपदेनौत्कण्ठ्यातिशयश्व। मृगेति । हरिणाक्षी जानकी । तेन लोचनयो श्चाञ्चल्याधिक्याल्लालस्योत्कर्ष व्यज्यते । कौमुदीव शरद्राकाचन्द्रिकेव मम लोचने कदा शिशिरीकरिष्यत इत्यन्वयः। एतेनाशंसाधिक्यं ध्वन्यते । अत्र पतिपदात्ख कीथैव मध्योत्कण्ठिता नायिका । स एव नायकः । विप्रलम्भः ४ङ्गारः । चपळ तिशयोक्तिः पूज़ेपमा लुप्तोपमा चालंकारः । रथोद्धतावृत्तम् । तदुक्तम्— ‘रान्न जराविह रथोद्धता लगौ, इति ॥
नन्वेवं जानक्याः प्रत्युद्गमादिसंप्रदायः कदाचिदनुभूतः किंवा कामुकतया केवलमुत्प्रेक्ष्यत इत्याशङ्कय प्रागेवं प्रत्यहमनुभूतमेवेति श्रीरामस्तत्सखीं प्रति यथा वृत्तं निवेदयति
अवधौ दिवसावसानकाले |
अवधाविति । भो सखि, तदा निरुक्तमानावस्थापूर्वकाले। रामा। रमयते सा रामा। रूपलावण्यादिभिः शरीरधमैः पातिव्रत्यादिभिर्मनोधर्मीश्च तद्वशीकरणनिपुण वैदेहीत्यर्थः। एतेनानुपेक्षणीयत्वं द्योत्यते। दिवसेति । सायंसमयरूप इति यावत् । अवधौ । ‘अवधिस्त्ववसाने स्यात्सीम्नि कालेऽपि चावधिः' इति विश्वदन्तःपुराना गमनप्रयोजकपरिसमाप्तावित्यर्थः । एतेन स्खस्य तस्याश्च धार्मिकत्वं ध्वन्यते । भव नेति । शुद्धान्तद्वार इत्यर्थः । विलोचने दधाना । नेत्रे तटस्थीकुर्वाणा सतीति यावत् । मां समागतमवलोक्य । अथ तदुत्तरक्षणावच्छेदेनेव, न तु किंचिद्विभु श्यापि। एवं च प्रीत्यतिशयः सूचितः । विकसदिति । एतेन वदनेऽरविन्दत्वं व्यज्यते । तेन तळाले तद्विकासादद्भुतरसेन लोकोत्तरानन्दो ध्वनितः । तस्मात्त्व याधुना तत्प्रसादनार्थ यतितव्यमेवेति भावः । इह स्मर्यमाणा अनुकूला वर्तमाना मानवती स्खकीया मध्यैव नायिका । उत्सुको नायकः। विप्रलम्भः ऋञ्जरः । काव्य लिङ्गमलंकारः ॥ अथ निरुकसखीं प्रत्येव श्रीरामः सीतायाः श्रीकृष्णो राधाया वा शीघ्र वी. भा० वि• ६