पृष्ठम्:भामिनीविलासः.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
शृङ्गारोल्लासः ।

चित्येनौत्सुक्यपौष्कल्याच्च तप्रभायाः स्मृतिद्वारा निरुक्तनायकचित्तानवरोहध्वनि तनिरुक्तनायिकाविषयकाभिलाषपरिपोषकतैवेति कदापि चेति पदैः सूचितम् । तस्मात्त्वं शीघ्रमेव तां प्रसादयेत्याशयः । अत्र मानवती प्रकृता । लीलावती तु स्मृता मध्या खकीया परकीया वा नायिका । उत्सुको नायकः । विप्रलम्भः ४ङ्गरः । लुप्तोपमा स्खभावोक्तिश्चलंकारः ।

 अथ तत्सौजन्यमुपन्यस्यति-आलीध्वित्यादिद्वाभ्याम् ।

आलीषु केलीरभसेन बाला
मुहुर्ममालापमुपालपन्ती ।
आरादुपाकर्ण्य गिरं मदीयां
सौदामनीयां सुषमामयासीत् ॥ ११ ॥

 आलीष्विति । बाला । अत एव । प्रथमचरणशेषः। ममालापं मद्विलासी यमाभाषणम् । सौदामनीयां ‘तडित्सौदामनी’ इत्यमराद्विद्युत्संबन्धिनीम् । सुषमां ‘सुषमा परमा शोभा’ इत्यपि तदुक्तेर्विलक्षणचापल्येन लोकोत्तरकान्तिमित्यर्थः। अयासीदगमत् । एवं च लज्जातिशयः सूचितः। अत्र लज्जिता मध्यादिर्नायिका । शेषं तु प्राग्वदेव । उपजातिर्धत्तम् ।

मुधैव मन्तुं परिकल्प्य गन्तुं
मृषैव रोषादुपजल्पतो मे ।
उदश्रुचञ्चन्नयना नताङ्गी
गिरं न कां कामुररीकरोति ॥ १२ ॥

 मुधैवेति । व्यर्थमेव । मन्तुं ‘भागोऽपराधो मन्तुधइत्यमराद्रोषम् । उदिति । उक्तान्यशूणि याभ्यां ते तथा अतएव चवती चपले तादृशे नयने यस्याः सा तथा । अतएव नतेति । कां कामपि गिरं नोररीकरोति नैवोच्चारयतीति योजना । वर्तमानप्रयोगात्परमसुशीलवं द्योत्यते । चकारेति भूतार्थकपाठेऽपि वक्तृभाषणक्ष णाव्यवहितप्राक्क्षणावच्छिन्नत्वेन तत्सांगत्यात्तादर्थमेवेति तत्त्वम् । अत्र खि मध्ग़ादिर्नायिका । लुप्तोपमा । इतरत्सर्वं प्राक्तनमेव । उपेन्द्रवजावृत्तम् ॥

 ननु ‘मांसपाञ्चालिकायास्तु यन्त्रलोळेऽङ्गपञ्जरे । नाय्वस्थिग्रन्थिशालिन्याः ब्रियाः किमिव शोभनम् ॥’ इत्यादि श्रीमद्वासिष्ठाद्युकरीत्या श्रीमद्भिविंवेकिभिरेव भाव्यम् , किमनेन पामरजनसाधारणेन तदौत्कण्ठ्येनेति सख्याशयमाशकम साम- न्यव्याप्या तां प्रत्याह--