पृष्ठम्:भामिनीविलासः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२७
शृङ्गारोल्लासः

त्यर्थः । एवं च नैकवचनेऽपि व्यवहारविरोधः । अधुनेदानीम् । जितेति । परा- जितहीरकादिरत्नकान्तीनामित्यर्थः । एतेन प्रागुक्तप्रार्थनया तस्यां तात्कालिकं स्मितं सूचितम् । एतादृशां रदानां दन्तानाम् । सदा निरन्तरे न तु क्षणमात्रम्। सहेति परामुत्कटाम् । मुदं हर्षम् । दधानं धारयदित्यर्थः । अहो पराजितहीरा- दिरत्नकान्तिदन्तसंततसंगतिशालित्वेन धन्यमेवाहमिति संमदवदिति यावत् । एतेन वक्ष्यमाणप्रमादहेतुर्हषः सूचितः । अतएव साहसेति । विवेकशून्यमित्यर्थः । अतएव नासां नासिकामधरीकुरुते स्वासनीकरोतीति संबन्धः । इह काव्यलिङ्गा- दिरेवालंकारः । शिष्टं तु प्राग्वदेव ॥

निभाल्य भूयो निजगौरिमाणं
मा नाम मानं सहसैव यायाः ।
गृहे गृहे पश्य तवाङ्गवर्णा
मुग्धे सुवर्णावलयो लुठन्ति ॥ ९४ ॥

 निभाल्येति । हे मुग्धे । एतेनैतादृश्यां मयाज्ञायामपि सत्यां नाध्यापि त्वं स्वयमालिङ्गनं ददासीत्यतो नैव त्वयि तादृग्विवेक इति व्यज्यते । त्वं भूयो वारे- वारं न तु क्षणमात्रं सकृद्वा निजेति । स्वशरीरगौरतमित्यर्थः । निभाल्या- वलोक्य । एतेन प्रागुक्तालिङ्गनप्रार्थने सूचिते सति तत्कालं तस्यां धन्याहमेता- दृकुचाद्यवयववत्वेनेति गर्वभरात्पुनःपुनः स्ववक्षोरुहावलोकनकारित्वं द्योत्यते । सहसैवाकस्मादेव । न तु विचारपूर्वकम् । तथात्वे तस्य वक्ष्यमाणबाधायोगात् । मानं गईं मा यायाः । मैव गच्छेत्यर्थः । ‘यासीः' इति पाठेऽप्ययमेवार्थः । कुत इति चेत्तत्र हेतु द्योतयति–गृहे गृह इत्याद्युत्तरार्धशेषेण । तवाङ्गवर्णास्त्वच्छरी- रसरूपाः । सुवर्णेति । हेमपङ्कयः गृहे गृहे प्रतिगृहं छठन्ति संचरजनपादसंपकैरपि चलन्तीति त्वं पश्येति योजना । एतेनात्यनादरणीयत्वं व्यज्यते । एवं च किं कुचादिगौरतायेव भूयो विलोक्य दृप्यसि, किंतु मदालिङ्गनादिनैव तत्साफल्यं कलयेत्याशयः । अत्र प्रतीपविशेषोऽलंकारः । अन्यत्सर्वं पूर्ववदेव ॥

करिकुम्भतुलामुरोजयोः
क्रियमाणां कविभिर्विशृङ्खलैः।
कथमालि ऋणोषि सादरं
विपरीतार्थविदो हि योषितः ॥ ९५ ॥