जम्बीरश्रियमतिलङ्घय लीलयैव |
जम्बीरेति। हे नीलेयादिसंबोधनम् । तेन रतिश्रान्तिराहित्यादिदानीं प्रसन्नत्वं व्यज्यते । यद्यपि मध्यवर्तिश्लोकत्रयेण नेत्रकोणादिवर्णनमपि कृतमथापि चरमश्लोके तयोरेव वर्णितत्वात्प्राधान्यं तत्रैव निरुक्तरतिलौल्यकृत्यावगन्तव्यम् । जम्बीरे प्रसिद्ध एव फलविशेषः । तच्छ्यिं तच्छोभाम्। लीलयैव न त्वायासेन अ- तिलछ्यातिक्रम्य। व्यानम्रीकृतेति । विशेषेणासमन्तान्नम्रीकृतौ कमनीयहेमकुम्भा- वुत्तमकनककलश याभ्यां तादृशौ सन्तावित्यर्थः । अधुना ते कुचौ कनकावलेन सार्ध स्पर्धेते किलेत्यन्वयः । एवं च तयोगरतरत्वोन्नतखपृथुत्वकठिनखातिशयः । सूचितः । तस्मादेतादृशाविमौ परश्रीहर्तारौ सकलभुवनभत्र मया कथं न मर्दनी- यावतस्त्वमालिङ्गनमेव द्रुतं देहीत्याशयः । इह खकीयैव मध्या रतान्तव्युत्थिता नायिका । कामुको नायकः । संभोगः शृङ्गारः । पर्यायोऽलंकारः ॥
तत्र किमिदमित्याकूतेन कटाक्षतः पश्यन्तीं तां प्रत्याह--
अङ्गानि दत्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नणाम् । |
अङ्गानीति । हे हेमाङ्गि स्वर्णवद्गौरि, त्वम् । अङ्गान्यालिङ्गनेन कुचादिसर्वा- वयवान् । दत्त्वा नृणाम् । ईश्वरत्वेन सर्वपुंमूलीभूतस्य ममेत्यर्थः । प्राणान्कीणासि चेदेतद्युक्तम् । न तु पुनवरंवारम् ।न तु सकृत् । नयनेति । कोण दत्त्वा प्राणा- न्क्रीणासीति युक्तमिति योजना । तात्पर्यायवशिष्टं सर्वं प्राग्वदेव । बहुतरहेममुद्रा एव दत्त्वा बहवो मणयो विक्रीयन्ते न त्वेकदेशमिति प्रसिद्धमेव लोके । परि- वृत्तिरलंकारः ॥
जितरत्नरुचां सदा रदाना |
जितेति। अयि शुभाङ्गि, भो सवयवसुन्दरि प्रकृतनायिके । एतेन प्रागुक्ता- लिङ्गनप्रार्थनव्यञ्जनमेव द्योयते । ते तव मौक्तिकम् । तदुपलक्षितं नासाभूषणमि-