पृष्ठम्:भामिनीविलासः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
भमिनीविलसे

 करिकुस्मेति । हे आलि अयि सखि । एतेन निरुक्तपद्यश्रवणेन रोषसंभव- माशङ्कय सामघटकालिपदेन मया सौहार्दवशीदेवेदमुक्तम् । वस्तुतस्तु त्वं लोको- त्तरनिरुपमसुन्दर्येवासीति सूचितम् । किंचाथापि त्वं कुप्यस्येव चेदन्यत्राप्येवं कुतोऽसौ न क्रियत इत्याक्षिपत्यवशिष्टत्रिपाद्या । त्वं विशृङ्खलैः । एतेन कवि- त्वेन क्रन्तिदर्शित्वात्तैर्युत्क्रियेत तद्युक्तमेवेति प्रत्युक्तम् । एतादृशैः कविभिर्वाल्मी- क्यादिभिः । उरोजयोर्निजवक्षोजयोः । करीति । गजगण्डस्थलसाम्यमित्यर्थः । तयोः कृष्णत्वादिना प्रकृतोपमानानर्हत्वमेवेति भावः । क्रियमाणां स्वस्वग्रन्थेषु प्रथ्यमानाम् । सादरं सप्रेम । कथं शृणोषि । नैवैतच्छ्रोतव्यमित्यन्वयः । तत्र हेतु- मर्थान्तरन्यासेन शिष्टपादेनाह–विपरीतेति । तस्मान्मय्यपि नैव रोषः कार्यः । किंवालिङ्गनमेव देयमिति तात्पर्यम् । अत्रापि प्रतीपविशेष एवालंकारः । शिष्टं तु सर्वमवशिष्टमेव पूर्वतः ॥

 एवं प्रार्थितापि श्रीरामेण सीता श्रीकृष्णेन रुक्मिणी वा सद्यः संजातसुरतान्त- श्रान्तिवशेन पुनस्तात्कालिकक्रीडानुत्सुकैवेति तदैत्सुक्यापादनार्थं तेन कस्याश्चि- निदर्शनव्याजेनेदानीं त्वया मत्प्रार्थनानादरे कृतेऽपि संपादिते सति मया परा- मुखत्वे क्षणान्तरे पुनः सद्यस्त्वमेव मदालिङ्गनचुम्बनादिमत्प्रार्थने विनैव खय- मेव संपादयिष्यसि तदपेक्षया वरमद्य मत्प्रार्थनेनैव तत्संपादनं येन पातिव्रत्य- बीजीभूतं मद्वचःपरिपालनमपि सियेदिति भेदेन बोध्यते--

तिरस्कृतो रोषवशात्परिष्वज
न्प्रियो मृगाक्ष्या शयितः पराङ्मुखः ।
किं दुःखितोऽसाविति कांदिशीकया।
कयाचिदाचुम्ब्य चिराय सस्वजे ॥ ९६ ॥

 तिरस्कृत इति । अयि प्रिये, कयाचिन्मृगाक्ष्या। एतेन रूपयौवनादिमद एव वक्ष्यमाणरोषे हेतुर्ध्योतितः । प्रियः प्रेयानपि परिष्वजज्ञालिङ्गन्सन् । रोषवशा- त्किचिदागमविलम्बादिनिमित्तकक्रोधपारतन्त्र्यादित्यर्थः । तिरस्कृतः परिभत्सितः । अत एव पराङ्मुखः शयितो निद्रितः । अत एव किमसौ दुःखित इति कांदिशी- कया ‘कांदिशीको भयद्रुतः' इत्यमराद्धीतिकम्पितया सत्या । आचुम्ब्य दुःखाति- रेकजन्यगाढ निद्रासंभवात्कामशास्त्रप्रसिद्धमालिङ्गनप्राथम्यमुल्लङ्घयैव तज्जागरादिसं- पादकं चुम्बनमेवाधरकपोलादावादौ विधायेति यावत् । चिरायेति देहलीदीपन्य